Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 25

45 Mantra
27/25
Devata- प्रजापतिर्देवता स्वराट् Rishi- हिरण्यगर्भ ऋषिः Chhand- स्वराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आपो॑ ह॒ यद् बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम्। ततो॑ दे॒वाना॒ सम॑वर्त्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥२५॥

आपः॑। ह॒। यत्। बृ॒ह॒तीः। विश्व॑म्। आय॑न्। गर्भ॑म्। दधा॑नाः। ज॒नय॑न्तीः। अ॒ग्निम्। ततः॑। दे॒वाना॑म्। सम्। अ॒व॒र्त्त॒त॒। असुः॑। एकः॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥२५ ॥

Mantra without Swara
आपो ह यद्बृहतीर्विश्वमायन्गर्भन्दधाना जनयन्तीरग्निम् । ततो देवानाँ समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥

आपः। ह। यत्। बृहतीः। विश्वम्। आयन्। गर्भम्। दधानाः। जनयन्तीः। अग्निम्। ततः। देवानाम्। सम्। अवर्त्तत। असुः। एकः। कस्मै। देवाय। हविषा। विधेम॥२५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आपः) व्यापिकास्तन्मात्राः (ह) खलु (यत्) यम् (बृहतीः) बृहत्यः (विश्वम्) कृतप्रवेशम् (आयन्) गच्छन्ति (गर्भम्) मूलं प्रधानम् (दधानाः) धरन्त्यः सत्यः (जनयन्तीः) प्रकटयन्त्यः (अग्निम्) सूर्याद्याख्यम् (ततः) तस्मात् (देवानाम्) दिव्यानां पृथिव्यादीनाम् (सम्) सम्यक् (अवर्तत) वर्तये (असुः) प्राणः (एकः) असहायः (कस्मै) सुखनिमित्ताय (देवाय) दिव्यगुणाय (हविषा) धारणेन (विधेम) परिचरेम॥२५॥
Essence
हे मनुष्याः! यानि स्थूलानि पञ्चतत्त्वानि दृश्यन्ते, तानि सूक्ष्मात् प्रकृतिकार्यात् पञ्चतन्मात्राख्यादुत्पन्नानि विजानीत। येषां मध्ये य एकः सूत्रात्मा वायुरस्ति स सर्वेषां धर्त्तेति बुध्यध्वम्। यदि तद्द्वारा योगाभ्यासेन परमात्मानं ज्ञातुमिच्छेत तर्हि तं साक्षाद् विजानीत॥२५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
बृहतीर्जनयन्तीर्यद्विश्वं गर्भं दधानाः सत्य आप आयंस्ततोऽग्निं देवानामेकोऽसुः समवर्त्तत, तस्मै ह कस्मै देवाय वयं हविषा विधेम॥२५॥