Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 24

45 Mantra
27/24
Devata- वायुर्देवता Rishi- वसिष्ठ ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम्।अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वाऽ उ॒त श्वे॒तं वसु॑धितिं निरे॒के॥२४॥

रा॒ये। नु। यम्। ज॒ज्ञतुः॑। रोद॑सी॒ इति॒ रोद॑सी। इ॒मे इती॒मे। रा॒ये। दे॒वी। धि॒षणा॑। धा॒ति॒। दे॒वम्। अध॑। वा॒युम्। नि॒युत॒ इति॑ नि॒ऽयुतः॑। स॒श्च॒त॒। स्वाः। उ॒त। श्वे॒तम्। वसु॑धिति॒मिति॒ वसु॑ऽधितिम्। नि॒रे॒के ॥२४ ॥

Mantra without Swara
राये नु यञ्जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । अध वायुन्नियुतः सश्चत स्वाऽउत श्वेतँवसुधितिन्निरेके ॥

राये। नु। यम्। जज्ञतुः। रोदसी इति रोदसी। इमे इतीमे। राये। देवी। धिषणा। धाति। देवम्। अध। वायुम्। नियुत इति निऽयुतः। सश्चत। स्वाः। उत। श्वेतम्। वसुधितिमिति वसुऽधितिम्। निरेके॥२४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(राये) धनाय (नु) सद्यः (यम्) (जज्ञतुः) जनयतः (रोदसी) द्यावापृथिव्यौ (इमे) प्रत्यक्षे। अत्र वाच्छन्दसि सर्वे विधयो भवन्तीति प्रकृतिभावाऽभावः (राये) धनाय (देवी) दिव्यगुणा (धिषणा) प्रज्ञेव वर्त्तमाना (धाति) दधाति (देवम्) दिव्यं पतिम् (अध) अथ (वायुम्) (नियुतः) निश्चयेन मिश्रणाऽमिश्रणकर्त्तारः (सश्चत) प्राप्नुवन्ति। अत्र व्यत्ययः (स्वाः) सम्बन्धिनः (उत) (श्वेतम्) वृद्धम् (वसुधितिम्) पृथिव्यादिवसूनां धितिर्यस्मात् तम् (निरेके) निर्गतशङ्के स्थाने॥२४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या! भवन्तो बलादिगुणयुक्तं सर्वस्य धर्त्तारं वायुं विज्ञाय धनप्रज्ञे वर्धयन्तु, यद्येकान्ते स्थित्वाऽस्य प्राणस्य द्वारा स्वात्मानं परमात्मानं च ज्ञातुमिच्छेयुस्तर्ह्यनयोः साक्षात्कारो भवति॥२४॥
Subject
पुनर्मनुष्यै किं कार्यमित्याह॥
Anvaya
हे मनुष्या! इमे रोदसी राये यं जज्ञतुर्देवी धिषणा यं देवं राये नु धाति। अध निरेके स्वा नियुतः श्वेतमुत वसुधितिं वायुं सश्चत, तं यूयं विजानीत॥२४॥