Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 20

45 Mantra
27/20
Devata- त्वष्टा देवता Rishi- अग्निर्ऋषिः Chhand- निचृदुष्णिक् Swara- ऋषभः
Mantra with Swara
तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीर्य॑म्। रा॒यस्पोषं॒ विष्य॑तु॒ नाभि॑म॒स्मे॥२०॥

तम्। नः॒। तु॒रीप॑म्। अद्भु॑तम्। पु॒रु॒क्षु। त्वष्टा॑। सु॒वीर्य॒मिति॑ सु॒ऽवीर्य॑म्। रा॒यः। पोष॑म्। वि। स्य॒तु॒। नाभि॑म्। अ॒स्मे इत्य॒स्मे ॥२० ॥

Mantra without Swara
तन्नस्तुरीपमद्भुतम्पुरुक्षु त्वष्टा सुवीर्यम् । रायस्पोषँविष्यतु नाभिमस्मे ॥

तम्। नः। तुरीपम्। अद्भुतम्। पुरुक्षु। त्वष्टा। सुवीर्यमिति सुऽवीर्यम्। रायः। पोषम्। वि। स्यतु। नाभिम्। अस्मे इत्यस्मे॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तम्) प्रसिद्धम् (नः) अस्मान् (तुरीपम्) यत्तुरः सद्य आप्नोति तम् (अद्भुतम्) आश्चर्यगुणकर्मस्वभावम् (पुरुक्षु) यत् पुरुषु बहुषु क्षियति वसति तत् (त्वष्टा) विद्यया प्रकाशित ईश्वरः (सुवीर्यम्) सुष्ठु बलम् (रायः) धनस्य (पोषम्) पुष्टिम् (वि, स्यतु) विमुञ्चतु (नाभिम्) मध्यप्रदेशम् (अस्मे) अस्माकम्॥२०॥
Essence
हे मनुष्याः! यच्छीघ्रकार्याश्चर्यभूतं बहुव्यापकं धनं बलं वास्ति तद्यूयमीश्वरप्रार्थनया प्राप्यानन्दिता भवत॥२०॥
Subject
ईश्वरात् किं प्रार्थनीयमित्याह॥
Anvaya
त्वष्टाऽस्मे नाभिं प्रति तुरीपमद्भुतं पुरुक्षु सुवीर्यं तं रायस्पोषं ददातु नो दुःखाद् विष्यतु च॥२०॥