Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 18

45 Mantra
27/18
Devata- अग्निर्देवता Rishi- अग्निर्ऋषिः Chhand- भुरिग्गायत्री Swara- षड्जः
Mantra with Swara
दैव्या॑ होताराऽ उ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जिह्वाम॒भि गृ॑णीतम्। कृ॒णु॒तं नः॒ स्विष्टिम्॥१८॥

दैव्या॑। हो॒ता॒रा॒। ऊ॒र्ध्वम्। अ॒ध्व॒रम्। नः॒। अ॒ग्नेः। जि॒ह्वाम्। अ॒भि। गृ॒णी॒त॒म् कृ॒णु॒तम्। नः॒ स्वि᳖ष्टि॒मिति॒ सुऽइ॑ष्टिम् ॥१८ ॥

Mantra without Swara
दैव्या होताराऽऊर्ध्वमध्वरन्नो ग्नेर्जुह्वामभि गृणीतम् । कृणुतम्नः स्विष्टम् ॥

दैव्या। होतारा। ऊर्ध्वम्। अध्वरम्। नः। अग्नेः। जिह्वाम्। अभि। गृणीतम् कृणुतम्। नः स्विष्टिमिति सुऽइष्टिम्॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(दैव्या) देवेषु विद्वत्सु भवौ विद्वांसौ (होतारा) सुखस्य दातारौ (ऊर्ध्वम्) प्राप्तोन्नतिम् (अध्वरम्) अहिंसनीयं व्यवहारम् (नः) अस्माकम् (अग्नेः) पावकस्य (जिह्वाम्) ज्वालाम् (अभि) (गृणीतम्) प्रशंसेताम् (कृणुतम्) कुरुतम् (नः) (स्विष्टिम्) शोभना इष्टिर्यस्यास्ताम्॥१८॥
Essence
यदि जिज्ञास्वध्यापकावग्निविद्यां जानीयातां तर्हि विश्वस्योन्नतिं कुर्याताम्॥१८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यो दैव्या होतारा न ऊर्ध्वमध्वरमभिगृणीतं तौ नः स्विष्टिमग्नेर्जिह्वां कृणुतम्॥१८॥