Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 15

45 Mantra
27/15
Devata- वायुर्देवता Rishi- अग्निर्ऋषिः Chhand- स्वराडुष्णिक् Swara- ऋषभः
Mantra with Swara
स य॑क्षदस्य महि॒मान॑म॒ग्नेः सऽर्इं॑ म॒न्द्रा सु॑प्र॒यसः॑।वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च॥१५॥

सः। य॒क्ष॒त्। अ॒स्य॒। म॒हि॒मान॑म्। अ॒ग्नेः। सः। ई॒म्। म॒न्द्रा। सु॒प्र॒यस॒ इति॑ सुऽप्र॒यसः॑। वसुः॑। चेति॑ष्ठः। व॒सु॒धात॑म॒ इति॑ वसु॒ऽधात॑मः। च॒ ॥१५ ॥

Mantra without Swara
स यक्षदस्य महिमानमग्नेः सऽईम्मन्द्रा सुप्रयसः । वसुश्वेतिष्ठो वसुधातमश्च ॥

सः। यक्षत्। अस्य। महिमानम्। अग्नेः। सः। ईम्। मन्द्रा। सुप्रयस इति सुऽप्रयसः। वसुः। चेतिष्ठः। वसुधातम इति वसुऽधातमः। च॥१५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सः) (यक्षत्) यजेत् सङ्गच्छेत (अस्य) (महिमानम्) महत्त्वम् (अग्नेः) पावकस्य (सः) (ईम्) जलम् (मन्द्रा) आनन्दप्रदानि हवींषि (सुप्रयसः) शोभनानि प्रयांसि प्रीतान्यन्नादीनि यस्मात् तस्य (वसुः) वासयिता (चेतिष्ठः) अतिशयेन चेता संज्ञाता (वसुधातमः) योऽतिशयेन वसूनि दधाति सः (च) समुच्चये॥१५॥
Essence
य इत्थमग्नेर्महत्त्वं विजानीयात्, सोऽतिधनी स्यात्॥१५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
स मनुष्यः सुप्रयसोऽस्याग्नेर्महिमानं यक्षत्, स वसुश्चेतिष्ठो वसुधातमश्च सन्नीं मन्द्रा यक्षत्॥१५॥