Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 26 / Mantra 6

26 Mantra
26/6
Devata- वैश्वनरो देवता Rishi- प्रादुराक्षिर्ऋषिः Chhand- जगती Swara- निषादः
Mantra with Swara
ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म्। अज॑स्रं घ॒र्ममी॑महे। उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा॥६॥

ऋ॒तावा॑नम्। ऋ॒तवा॑ना॒मित्यृ॒तऽवा॑नम्। वै॒श्वा॒न॒रम्। ऋ॒तस्य॑। ज्योति॑षः। पति॑म्। अज॑स्रम्। घ॒र्मम्। ई॒म॒हे॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वै॒श्वा॒न॒राय॑। त्वा॒। ए॒षः। ते॒। योनिः॑। वै॒श्वा॒न॒राय॑। त्वा॒ ॥६ ॥

Mantra without Swara
ऋतावानँवैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रन्घर्ममीमहे । उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा ॥

ऋतावानम्। ऋतवानामित्यृतऽवानम्। वैश्वानरम्। ऋतस्य। ज्योतिषः। पतिम्। अजस्रम्। घर्मम्। ईमहे। उपयामगृहीत इत्युपयामऽगृहीतः। असि। वैश्वानराय। त्वा। एषः। ते। योनिः। वैश्वानराय। त्वा॥६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ऋतावानम्) य ऋतं जलं वनति संभजति तम् (वैश्वानरम्) विश्वेषां नराणां मध्ये राजमानम् (ऋतस्य) जलस्य (ज्योतिषः) प्रकाशस्य (पतिम्) पालकम् (अजस्रम्) निरन्तरम् (घर्मम्) प्रतापम् (ईमहे) याचामहे (उपयामगृहीतः) सुनियमैर्निगृहीतान्तःकरणः (असि) (वैश्वानराय) विश्वस्य नायकाय (त्वा) (एषः) (ते) (योनिः) गृहम् (वैश्वानराय) (त्वा) त्वाम्॥६॥
Essence
अत्र वाचकलुप्तोपमालङ्कार। योऽग्निर्जलादीनि मूर्त्तानि द्रव्याणि स्वतेजसा भिनत्ति निरन्तरं जलमाकर्षति च तं विदित्वा मनुष्याः सर्वर्त्तुसुखकारकं गृहमलंकुर्युः॥६॥
Subject
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह॥
Anvaya
हे मनुष्या यथा वयमृतावानं वैश्वानरमृतस्य ज्योतिषस्पतिर्घर्ममजस्रमीमहे तथा यूयमप्येनं याचत। यस्त्वं वैश्वानरायोपयामगृहीतोऽसि तं त्वा यस्यैष ते योनिरस्ति तं त्वा च वैश्वानराय सत्कुर्मस्तथा यूयमपि कुरुत॥६॥