Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 26 / Mantra 5

26 Mantra
26/5
Devata- सूर्यो देवता Rishi- रम्याक्षी ऋषिः Chhand- भुरिग् जगती Swara- निषादः
Mantra with Swara
इन्द्रा या॑हि वृत्रह॒न् पिबा॒ सोम॑ꣳ शतक्रतो। गोम॑द्भिर्ग्राव॑भिः सु॒तम्।उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा गोम॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा गोम॑ते॥५॥

इन्द्र॑। आ। या॒हि॒। वृ॒त्र॒ह॒न्निति॑ वृत्रऽहन्। पिब॑। सोम॑म्। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। गोम॑द्भि॒रिति॒ गोम॑त्ऽभिः। ग्राव॑भि॒रिति॒ ग्राव॑ऽभिः। सु॒तम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। गोम॑त॒ इति॒ गोऽम॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। गोम॑त॒ इति॒ गोऽम॑ते ॥५ ॥

Mantra without Swara
इन्द्रायाहि वृत्रहन्पिबा सोमँ शतक्रतो । गोमद्भिर्ग्रावभिः सुतम् । उपयामगृहीतोसीन्द्राय त्वा गोमते ॥

इन्द्र। आ। याहि। वृत्रहन्निति वृत्रऽहन्। पिब। सोमम्। शतक्रतो इति शतऽक्रतो। गोमद्भिरिति गोमत्ऽभिः। ग्रावभिरिति ग्रावऽभिः। सुतम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। गोमत इति गोऽमते। एषः। ते। योनिः। इन्द्राय। त्वा। गोमत इति गोऽमते॥५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्र) परमैश्वर्ययुक्त (आ) समन्तात् (याहि) गच्छ (वृत्रहन्) यो वृत्रं मेघं हन्ति स सूर्यस्तद्वत् (पिब) अत्र ‘द्व्यचोऽतस्तिङः’ [अ॰६.३.१३५] इति दीर्घः। (सोमम्) ऐश्वर्यकारकं रसम् (शतक्रतो) बहुप्रज्ञाकर्मयुक्त (गोमद्भिः) बहवो गावः किरणा विद्यन्ते येषु तैः (ग्रावभिः) गर्जनायुक्तैर्मेघैः (सुतम्) निष्पादितम् (उपयामगृहीतः) सुनियमै-र्निगृहीतात्मा (असि) (इन्द्राय) ऐश्वर्याय (त्वा) त्वाम् (गोमते) बहुधेन्वादियुक्ताय (एषः) (ते) तव (योनिः) गृहम् (इन्द्राय) ऐश्वर्यमिच्छुकाय (त्वा) त्वाम् (गोमते) प्रशस्तभूमिराज्ययुक्ताय॥५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा मेघहन्ता सूर्यः सर्वस्य जगतो रसं पीत्वा वर्षयित्वा सर्वं जगत् प्रीणाति तथैव त्वं महौषधिरसान् पिब ऐश्वर्योन्नतये प्रयतस्व च॥५॥
Subject
पुनर्मनुष्यै किं क्रियेत इत्याह॥
Anvaya
हे शतकतो वृत्रहन्निन्द्र त्वं गोमद्भिर्ग्रावभिः सहायाहि सुतं सोमं पिब। यतस्त्वं गोमत इन्द्रायोपयामगृहीतोऽसि तं त्वा यस्यैष ते गोमत इन्द्राय योनिरस्ति तं त्वा च वयं सत्कुर्याम॥५॥