Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 26 / Mantra 4

26 Mantra
26/4
Devata- इन्द्रो देवता Rishi- रम्याक्षी ऋषिः Chhand- स्वराड् जगती Swara- निषादः
Mantra with Swara
इन्द्र॒ गोम॑न्नि॒हा या॑हि॒ पिबा॒ सोम॑ꣳ शतक्रतो। वि॒द्यद्भि॒र्ग्राव॑भिः सु॒तम्।उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते॥४॥

इन्द्र॑। गोम॒न्निति॒ गोऽम॑न्। इ॒ह। आ। या॒हि॒। पिब॑। सोम॑म्। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। वि॒द्यद्भि॒रिति॒ वि॒द्यत्ऽभिः॑। ग्राव॑भि॒रिति॒ ग्राव॑ऽभिः। सु॒तम्। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। गोम॑त॒ इति॒ गोऽम॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। गोम॑त इति॒ गोऽम॑ते ॥४ ॥

Mantra without Swara
इन्द्र गोमन्निहायाहि पिबा सोमँ शतक्रतो । विद्यद्भिर्ग्रावभिः सुतम् । उपयामगृहीतो सीन्द्राय त्वा गोमतऽएष ते योनिरिन्द्राय त्वा गोमते ॥

इन्द्र। गोामन्निति गोऽमन्। इह। आ। याहि। पिब। सोमम्। शतक्रतो इति शतऽक्रतो। विद्यद्भिरितिः विद्यत्ऽभिः। ग्रावभिरिति ग्रावऽभिः। सुतम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। गोमत इति गोऽमते। एषः। ते। योनिः। इन्द्राय। त्वा। गोमत इति गोऽमते॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्र) विद्वन् मनुष्य! (गोमन्) प्रशस्ता गौर्वाणी विद्यते यस्य तत्संबुद्धौ (इह) अस्मिन् संसारे (आ) (याहि) प्राप्नुहि (पिब) अत्र ‘द्व्यचोऽतस्तिङः’ [अ॰६.३.१३५] इति दीर्घः (सोमम्) रसम् (शतक्रतो) शतमसंख्यः क्रतुः प्रज्ञा यस्य तत्सम्बुद्धौ (विद्यद्भिः) विद्यमानैः। अत्र व्यत्ययेन परमैपदम् (ग्रावभिः) मेघैः (सुतम्) निष्पन्नम् (उपयामगृहीतः) उपयामैर्गृहीतानि जितानि इन्द्रियाणि येन सः (असि) (इन्द्राय) ऐश्वर्याय (त्वा) त्वाम् (गोमते) प्रशस्तपृथिवीराज्ययुक्ताय (एषः) (ते) (योनिः) निमित्तम् (इन्द्राय) प्रशस्तैश्वर्यवते (त्वा) त्वाम् (गोमते) प्रशस्तवाग्वते॥४॥
Essence
ये वैद्यकशास्त्रविद्यासिद्धानि मेघेनोत्पन्नान्यौषधानि सेवन्ते योगं चाभ्यस्यन्ति ते सुखैश्वर्ययुक्ता जायन्ते॥४॥
Subject
पुनर्मनुष्याः किं कुर्युरित्याह॥
Anvaya
हे शतक्रतो गोमन्निन्द्र त्वमिहा याहि विद्यद्भिर्ग्रावभिः सुतं सोमं पिब यतस्त्वमुपयामगृहीतोऽसि तस्माद् गोमत इन्द्राय त्वा यस्यैष ते योनिरस्ति तस्मै गोमत इन्द्राय त्वां च वयं सत्कुर्मः॥४॥