Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 26 / Mantra 3

26 Mantra
26/3
Devata- ईश्वरो देवता Rishi- गृत्समद ऋषिः Chhand- भुरिगत्यष्टिः Swara- गान्धारः
Mantra with Swara
बृह॑स्पते॒ऽअति॒ यद॒र्योऽअर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु। यद्दी॒दय॒च्छव॑सऽ ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम्। उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पत॑ये त्वै॒ष ते॒ योनि॒र्बृह॒स्पत॑ये त्वा॥३॥

बृह॑स्पते। अति॑। यत्। अ॒र्यः। अर्हा॑त्। द्यु॒मदिति॑ द्यु॒ऽमत्। वि॒भातीति॑ वि॒ऽभाति॑। क्रतु॑म॒दिति॒ क्रतु॑ऽमत्। जने॑षु। यत्। दी॒दय॑त्। शव॑सा। ऋ॒त॒प्र॒जा॒तेत्यृ॑तऽप्रजात। तत्। अ॒स्मासु॑। द्रवि॑णम्। धे॒हि॒। चि॒त्रम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। बृह॒स्पत॑ये। त्वा॒। ए॒षः। ते॒। योनिः॑। बृह॒स्पत॑ये। त्वा॒ ॥३ ॥

Mantra without Swara
बृहस्पतेऽअति यदर्याऽअर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवसऽऋतप्रजात तदस्मासु द्रविणन्धेहि चित्रम् । उपयामगृहीतोसि बृहस्पतये त्वैष ते योनिर्बृहस्पतये त्वा ॥

बृहस्पते। अति। यत्। अर्यः। अर्हात्। द्युमदिति द्युऽमत्। विभातीति विऽभाति। क्रतुमदिति क्रतुऽमत्। जनेषु। यत्। दीदयत्। शवसा। ऋतप्रजातेत्यृतऽप्रजात। तत्। अस्मासु। द्रविणम्। धेहि। चित्रम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। बृहस्पतये। त्वा। एषः। ते। योनिः। बृहस्पतये। त्वा॥३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(बृहस्पते) बृहतां प्रकृत्यादीनां जीवानां च पालकेश्वर (अति) (यत्) (अर्यः) स्वामीश्वरः। अर्यः स्वामिवैश्ययोः [अ॰३.१.१०३] (अर्य इतीश्वरना॰ (निघं॰२।२२॥) (अर्हात्) योग्यात् (द्युमत्) प्रशस्तप्रकाशयुक्तं मनः (विभाति) विशेषतया प्रकाशते (क्रतुमत्) प्रशस्तप्रज्ञाकर्मयुक्तम् (जनेषु) मनुष्येषु (यत्) (दीदयत्) प्रकाशयत्सत् (शवसा) बलेन (ऋतप्रजात) ऋतं सत्यं प्रजातं यस्मात्तत्संबुद्धौ (तत्) (अस्मासु) (द्रविणम्) धनं यशश्च (धेहि) (चित्रम्) आश्चर्यम् (उपयामगृहीतः) उपगतयमैर्विदितः (असि) (बृहस्पतये) बृहत्या वाचः पालनाय (त्वा) त्वाम् (एषः) (ते) तव (योनिः) प्रमाणम् (बृहस्पतये) बृहतामाप्तानां पालकाय (त्वा) त्वाम्॥३॥
Essence
हे मनुष्याः! यस्मान्महान् दयालुर्न्यायकार्यणीयान् कश्चिदपि पदार्थो नास्ति येन वेदाविर्भावद्वारा सर्वे मनुष्या भूषिता येनाद्भुतं विज्ञानं धनं च विस्तारितं यो योगाभ्यासगम्योऽस्ति स एवेश्वरोऽस्माभिः सर्वैरुपासनीयतमोऽस्तीति विजानीत॥३॥
Subject
पुनः स ईश्वरः किं करोतीत्याह॥
Anvaya
हे बृहस्पते! यस्त्वमुपयामगृहीतोऽसि तं त्वा बृहस्पतये यस्यैष ते योनिरस्ति तस्मै बृहस्पतये त्वा वयं स्वीकुर्मः। हे ऋतप्रजातार्यस्त्वं जनेष्वर्हाद्यद् द्युमत् क्रतुमदतिविभाति यच्छवसा दीदयदस्ति तच्चित्रं विज्ञानं द्रविणं चास्मासु धेहि॥३॥