Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 26 / Mantra 24

26 Mantra
26/24
Devata- विद्वान् देवता Rishi- गृत्समद ऋषिः Chhand- जगती Swara- निषादः
Mantra with Swara
अ॒मेव॑ नः सुहवा॒ऽआ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन।अथा॑ मदस्व जुजुषा॒णो ऽअन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः॥२४॥

अ॒मेवेत्य॒माऽइ॑व। नः॒। सु॒ह॒वा॒ऽइति॑ सुऽहवाः। आ। हि। गन्त॑न। नि। ब॒र्हिषि॑। स॒द॒त॒न॒। रणि॑ष्टन। अथ॑। म॒द॒स्व॒। जु॒जु॒षा॒णः। अन्ध॑सः। त्वष्टः॑। दे॒वेभिः॑। जनि॑भि॒रिति॒ जनि॑ऽभिः। सु॒मद्ग॑ण॒ इति॑ सु॒मत्ऽग॑णः ॥२४ ॥

Mantra without Swara
अमेव नः सुहवाऽआ हि गन्तन नि बर्हिषि सदतना रणिष्टन । अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥

अमेवेत्यमाऽइव। नः। सुहवाऽइति सुऽहवाः। आ। हि। गन्तन। नि। बर्हिषि। सदतन। रणिष्टन। अथ। मदस्व। जुजुषाणः। अन्धसः। त्वष्टः। देवेभिः। जनिभिरिति जनिऽभिः। सुमद्गण इति सुमत्ऽगणः॥२४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अमेव) उत्तमं गृहमिव (नः) अस्मान् (सुहवाः) शोभनाह्वानाः (आ) (हि) किल (गन्तन) गच्छत (नि) नितराम् (बर्हिषि) उत्तमे व्यवहारे (सदतन) सीदत (रणिष्टन) वदत (अथ) अनन्तरम्। अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (मदस्व) आनन्द (जुजुषाणः) प्रसन्नः सेवमानः (अन्धसः) अन्नादेर्मध्ये (त्वष्टः) देदीप्यमानः (देवेभिः) दिव्यगुणैः (जनिभिः) जन्मभिः (सुमद्गणः) सुहर्षगणः॥२४॥
Essence
अत्रोपमालङ्कारः। ये स्वयमुत्तमे व्यवहारे स्थित्वाऽन्यान् स्थापयेयुस्ते सदाऽऽनन्देयुः। स्त्रीपुरुषाः प्रीत्या संयुज्य यान्यपत्यानि जनयेयुस्तानि दिव्यगुणानि जायन्ते॥२४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे त्वष्टो! जुजुषाणः सुमद्गणाः संस्त्वं देवेभिर्जनिभिः सहाऽन्धसो मदस्वाथाऽमेवान्यानानन्दय। हे विद्वांसः! सुहवा यूयममेव बर्हिषि न आ गन्तन। अत्र हि निषदतन रणिष्टन च॥२४॥