Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 26 / Mantra 14

26 Mantra
26/14
Devata- सवंत्सरो देवता Rishi- भारद्वाज ऋषिः Chhand- भुरिग्बृहती Swara- मध्यमः
Mantra with Swara
ऋ॒तव॑स्ते य॒ज्ञं वित॑न्वन्तु॒ मासा॑ र॒क्षन्तु॑ ते॒ हविः॑। सं॒व॒त्स॒रस्ते॑ य॒ज्ञं द॑धातु नः प्र॒जां च॒ परि॑ पातु नः॥१४॥

ऋ॒तवः॑। ते॒। य॒ज्ञम्। वि। त॒न्व॒न्तु॒। मासाः॑। र॒क्षन्तु॑। ते॒। हविः॑। सं॒व॒त्स॒रः। ते॒। य॒ज्ञम्। द॒धा॒तु। नः॒। प्र॒जामिति॑ प्र॒ऽजाम्। च॒। परि॑। पा॒तु॒। नः॒ ॥१४ ॥

Mantra without Swara
ऋतवस्ते यज्ञँवितन्वन्तु मासा रक्षन्तु ते हविः । सँवत्सरस्ते यज्ञन्दधातु नः प्रजाञ्च परि पातु नः ॥

ऋतवः। ते। यज्ञम्। वि। तन्वन्तु। मासाः। रक्षन्तु। ते। हविः। संवत्सरः। ते। यज्ञम्। दधातु। नः। प्रजामिति प्रऽजाम्। च। परि। पातु। नः॥१४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ऋतवः) वसन्ताद्याः (ते) तव (यज्ञम्) सत्कारादिव्यवहारम्। (वि) (तन्वन्तु) विस्तृणन्तु (मासाः) कार्त्तिकादयः (रक्षन्तु) (ते) तव (हविः) होतव्यं वस्तु (संवत्सरः) (ते) तव (यज्ञम्) (दधातु) (नः) अस्माकम् (प्रजाम्) (च) (परि) (पातु) रक्षतु (नः) अस्माकम्॥१४॥
Essence
विद्वद्भिर्मनुष्यैः सर्वाभिः सामग्रीभिर्विद्यावर्द्धको व्यवहारः सदा वर्द्धनीयो न्यायेन प्रजाश्च पालनीयाः॥१४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वँस्ते यज्ञमृतवो वितन्वन्तु ते हविर्मासा रक्षन्तु ते यज्ञं नः संवत्सरो दधातु नः प्रजां च परिपातु॥१४॥