Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 26 / Mantra 12

26 Mantra
26/12
Devata- अग्निर्देवता Rishi- नोधा गोतम ऋषिः Chhand- विराड्गायत्री Swara- षड्जः
Mantra with Swara
यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो। महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ऽउदी॑रते॥१२॥

यत्। वाहि॑ष्ठम्। तत्। अ॒ग्नये॑। बृ॒हत्। अ॒र्च॒। वि॒भा॒व॒सो॒ इति॑ विभऽवसो। महि॑षी॒वेति॒ महि॑षीऽइव। त्वत्। र॒यिः त्वत्। वाजाः॑। उत्। ई॒र॒ते॒ ॥१२ ॥

Mantra without Swara
यद्वाहिष्ठन्तदग्नये बृहदर्च विभावसो । महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥

यत्। वाहिष्ठम्। तत्। अग्नये। बृहत्। अर्च। विभावसो इति विभऽवसो। महिषीवेति महिषीऽइव। त्वत्। रयिः त्वत् । वाजाः। उत्। ईरते॥१२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यत्) (वाहिष्ठम्) अतिशयेन वाहयितारम् (तत्) (अग्नये) पावकाय (बृहत्) महत् (अर्च) सत्कुरु (विभावसो) प्रकाशितधन (महिषीव) यथा राज्ञि तथा (त्वत्) तव सकाशात् (रयिः) धनम् (त्वत्) (वाजाः) अन्नादीनि (उत्) अपि (ईरते) प्राप्नुवन्ति॥१२॥
Essence
यथा राज्ञी सुखप्रापिका महाधनप्रदा भवति तथैव राज्ञः सकाशात् सर्वे धनमन्यान्युत्तमानि वस्तूनि च प्राप्नुयुः॥१२॥
Subject
पुनः सा राज्ञी किं कुर्यादित्याह॥
Anvaya
हे विभावसो अग्नये यद् बृहद्वाहिष्ठमस्ति तदर्च तद्वयमप्यर्चेम महिषीव त्वद्रयिस्त्वद्वाजाश्चोदीरते तं वयं सत्कुर्याम॥१२॥