Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 26 / Mantra 10

26 Mantra
26/10
Devata- इन्द्रो देवता Rishi- वसिष्ठ ऋषिः Chhand- निचृज्जगती Swara- निषादः
Mantra with Swara
म॒हाँ२॥ऽइन्द्रो॒ वज्र॑हस्तः षोड॒शी शर्म॑ यच्छतु। हन्तु॑ पा॒प्मानं॒ योऽस्मान् द्वेष्टि॑। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा॥१०॥

म॒हान्। इन्द्रः॑। वज्र॑ह॒स्त इति॒ वज्र॑ऽहस्तः। षो॒ड॒शी। शर्म॑। य॒च्छ॒तु॒। हन्तु॑। पा॒प्मान॑म्। यः। अ॒स्मान्। द्वेष्टि॑। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। म॒हे॒न्द्रायेति॑ महाऽइ॒न्द्राय॑। त्वा॒। ए॒षः। ते॒। योनिः॑। म॒हे॒न्द्रायेति॑ महाऽइ॒न्द्राय॑। त्वा॒ ॥१० ॥

Mantra without Swara
महाँ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु । हन्तु पाप्मानँयोस्मान्द्वेष्टि । उपयामगृहीतोसि महेन्द्राय त्वैष ते योनिर्महेन्द्राय त्वा ॥

महान्। इन्द्रः। वज्रहस्त इति वज्रऽहस्तः। षोडशी। शर्म। यच्छतु। हन्तु। पाप्मानम्। यः। अस्मान्। द्वेष्टि। उपयामगृहीत इत्युपयामऽगृहीतः। असि। महेन्द्रायेति महाऽइन्द्राय। त्वा। एषः। ते। योनिः। महेन्द्रायेति महाऽइन्द्राय। त्वा॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(महान्) बृहत्तमः (इन्द्रः) परमैश्वर्ययुक्तो राजा (वज्रहस्तः) वज्रो हस्तयोर्यस्य सः (षोडशी) षोडशकलायुक्तः (शर्म) शृण्वन्ति दुःखानि यस्मिन् तद्गृहम्। शर्मेति गृहनामसु पठितम्॥ (निघं॰ ३।१४।) (यच्छतु) ददातु (हन्तु) (पाप्मानम्) दुष्टकर्मकारिणम् (यः) (अस्मान्) (द्वेष्टि) अप्रीतयति (उपयामगृहीतः) (असि) (महेन्द्राय) महद्गुणविशिष्टाय (त्वा) त्वाम् (एषः) (ते) (योनिः) निमित्तम् (महेन्द्राय) (त्वा) त्वाम्॥१०॥
Essence
हे प्रजाजन! यो युष्मभ्यं सुखं दद्याद् दुष्टान् हन्यान्महैश्वर्यं वर्द्धयेत् स युष्माभिः सदा सत्कर्त्तव्यः॥१०॥
Subject
अथ राजसत्कारमाह॥
Anvaya
हे मनुष्याः! वज्रहस्तः षोडशी महानिन्द्रः शर्म यच्छतु योऽस्मान् द्वेष्टि तं पाप्मानं हन्तु यस्त्वं महेन्द्रायोपयामगृहीतोऽसि तं त्वा यस्यैष ते महेन्द्राय योनिरस्ति तं त्वा च वयं सत्कुर्याम॥१०॥