Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 25 / Mantra 8

48 Mantra
25/8
Devata- इन्द्रादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- निचृदभिकृतिः Swara- ऋषभः
Mantra with Swara
इन्द्र॑स्य क्रो॒डोऽदि॑त्यै पाज॒स्यं दि॒शां ज॒त्रवोऽदि॑त्यै भ॒सज्जी॒मूता॑न् हृदयौप॒शेना॒न्तरि॑क्षं पुरी॒तता॒ नभ॑ऽउद॒र्येण चक्रवा॒कौ मत॑स्नाभ्यां॒ दिवं॑ वृ॒क्काभ्यां॑ गि॒रीन् प्ला॒शिभि॒रुप॑लान् प्ली॒ह्ना व॒ल्मीका॑न् क्लो॒मभि॑र्ग्लौ॒भिर्गुल्मा॑न् हि॒राभिः॒ स्रव॑न्तीर्ह्र॒दान् कु॒क्षिभ्या॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना॥८॥

इन्द्र॑स्य। क्रो॒डः। अदि॑त्यै। पा॒ज॒स्य᳖म्। दि॒शाम्। ज॒त्रवः॑। अदि॑त्यै। भ॒सत्। जी॒मूता॑न्। हृ॒द॒यौ॒प॒शेन॑। अ॒न्तरि॑क्षम्। पु॒री॒तता॑। पु॒रि॒ततेति॑ पुरि॒ऽतता॑। नभः॑। उ॒द॒र्ये᳖ण। च॒क्र॒वा॒काविति॑ चक्रऽवा॒कौ। मत॑स्नाभ्याम्। दिव॑म्। वृ॒क्काभ्या॑म्। गि॒रीन्। प्ला॒शिभि॒रिति॑ प्ला॒शिऽभिः॑। उप॑लान्। प्ली॒ह्ना। व॒ल्मीका॑न्। क्लो॒मभि॒रिति॑ क्लो॒मऽभिः॑। ग्लौ॒भिः। गुल्मा॑न्। हि॒राभिः॑। स्रव॑न्तीः। ह्न॒दान्। कु॒क्षिभ्या॒मिति॑ कु॒क्षिऽभ्या॑म्। स॒मु॒द्रम्। उ॒दरे॑ण। वै॒श्वा॒न॒रम्। भस्म॑ना ॥८ ॥

Mantra without Swara
इन्द्रस्य क्रीडोदित्यै पाजस्यन्दिशाञ्जत्रवोदित्यै भसज्जीमूतान्हृदयौपशेनान्तरिक्षम्पुरीतता नभऽउदर्येण चक्रवाकौ मतस्नाभ्यान्दिवँवृक्काभ्याङ्गिरीन्प्लाशिभिरुपलान्प्लीह्ना वल्मीकान्क्लोमभिर्ग्लाभिर्गुल्मान्हिराभिः स्रवन्तीह््र्रदान्कुक्षिभ्याँ समुद्रमुदरेण वैश्वानरम्भस्मना ॥

इन्द्रस्य। क्रोडः। अदित्यै। पाजस्यम्। दिशाम्। जत्रवः। अदित्यै। भसत्। जीमूतान्। हृदयौपशेन। अन्तरिक्षम्। पुरीतता। पुरिततेति पुरिऽतता। नभः। उदर्येण। चक्रवाकाविति चक्रऽवाकौ। मतस्नाभ्याम्। दिवम्। वृक्काभ्याम्। गिरीन्। प्लाशिभिरिति प्लाशिऽभिः। उपलान्। प्लीह्ना। वल्मीकान्। क्लोमभिरिति क्लोमऽभिः। ग्लौभिः। गुल्मान्। हिराभिः। स्रवन्तीः। ह्नदान्। कुक्षिभ्यामिति कुक्षिऽभ्याम्। समुद्रम्। उदरेण। वैश्वानरम्। भस्मना॥८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्रस्य) विद्युतः (क्रोडः) निमज्जनम् (अदित्यै) पृथिव्यै (पाजस्यम्) पाजस्वन्नेषु साधु (दिशाम्) (जत्रवः) सन्धयः (अदित्यै) दिवे प्रकाशाय। अदितिर्द्याविति प्रमाणात् (भसत्) दीपनम् (जीमूतान्) मेघान् अत्र जेर्मूट् चोदात्तः [अ॰३.९१] इत्यनेनायं सिद्धः। (हृदयौपशेन) यो हृदये आसमन्तादुपशेते स हृदयौपशो जीवस्तेन (अन्तरिक्षम्) अवकाशम् (पुरीतता) हृदयस्थया नाड्या (नभः) उदकम् (उदर्येण) उदरे भवेन (चक्रवाकौ) पक्षिविशेषाविव (मतस्नाभ्याम्) ग्रीवोभयभागाभ्याम् (दिवम्) प्रकाशम् (वृक्काभ्याम्) याभ्यां वर्जन्ति ताभ्याम् (गिरीन्) शैलान् (प्लाशिभिः) प्रकर्षेणाशनक्रियाभिः (उपलान्) मेघान्। उपल इति मेघनामसु पठितम्॥ (निघं॰१।१०) (प्लीह्ना) हृदयस्थावयवेन (वल्मीकान्) मार्गान् (क्लोमभिः) क्लेदनैः (ग्लौभिः) हर्षक्षयैः (गुल्मान्) दक्षिणपार्श्वोदरस्थितान् (हिराभिः) वृद्धिभिः (स्रवन्तीः) नदीः (ह्रदान्) जलाशयान् (कुक्षिभ्याम्) (समुद्रम्) (उदरेण) (वैश्वानरम्) सर्वेषां प्रकाशकम् (भस्मना) दग्धशेषेण निस्सारेण॥८॥
Essence
यदि मनुष्या अनेकान् विद्याबोधान् प्राप्य युक्ताहारविहारैः सर्वाण्यङ्गानि संपोष्य रोगान्निवारयेयुस्तर्हि ते धर्मार्थकाममोक्षानाप्नुयुः॥८॥
Subject
पुनः कस्य कस्य गुणाः पशुषु सन्तीत्याह॥
Anvaya
हे मनुष्याः! युष्माभिः प्रयत्नेनेन्द्रस्य क्रोडोऽदित्यै पाजस्यं दिशां जत्रवोऽदित्यै भसच्च विज्ञेयाः। जीमूतान् हृदयौपशेन पुरीतताऽन्तरिक्षमुदर्येण नभश्चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां गिरीन् प्लाशिभिरुपलान् प्लीह्ना वल्मीकान् क्लोमभिर्ग्लौभिश्च गुल्मान् हिराभिः स्रवन्तीर्ह्रदान् कुक्षिभ्यां समुद्रमुदरेण भस्मना च वैश्वानरं यूयं विजानीत॥८॥