Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 25 / Mantra 4

48 Mantra
25/4
Devata- अग्न्यादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- स्वराड् धृतिः Swara- ऋषभः
Mantra with Swara
अ॒ग्नेः प॑क्ष॒तिर्वा॒योर्निप॑क्षति॒रिन्द्र॑स्य तृ॒तीया॒ सोम॑स्य चतु॒र्थ्यदि॑त्यै पञ्च॒मीन्द्रा॒ण्यै ष॒ष्ठी म॒रुता॑ सप्त॒मी बृह॒स्पते॑रष्ट॒म्यर्य॒म्णो न॑व॒मी धा॒तुर्द॑श॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒मस्य॑ त्रयोद॒शी॥४॥

अ॒ग्नेः। प॒क्ष॒तिः। वा॒योः। निप॑क्षति॒रिति॒ निऽप॑क्षतिः। इन्द्र॑स्य। तृ॒तीया॑। सोम॑स्य। च॒तु॒र्थी। अदि॑त्यै। प॒ञ्च॒मी। इ॒न्द्रा॒ण्यै। ष॒ष्ठी। म॒रुता॑म्। स॒प्त॒मी। बृह॒स्पतेः॑। अ॒ष्ट॒मी। अ॒र्य॒म्णः। न॒व॒मी। धा॒तुः। द॒श॒मी। इन्द्र॑स्य। ए॒का॒द॒शी। वरु॑णस्य। द्वा॒द॒शी। य॒मस्य॑। त्र॒यो॒द॒शीति॑ त्रयःद॒शी ॥४ ॥

Mantra without Swara
अग्नेः पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुताँ सप्तमी बृहस्पतेरष्टम्यर्यम्णो नवमी धातुर्दशमीन्द्रस्यैकशी वरुणस्य द्वादशी यमस्य त्रयोदशी ॥

अग्नेः। पक्षतिः। वायोः। निपक्षतिरिति निऽपक्षतिः। इन्द्रस्य। तृतीया। सोमस्य। चतुर्थी। अदित्यै। पञ्चमी। इन्द्राण्यै। षष्ठी। मरुताम्। सप्तमी। बृहस्पतेः। अष्टमी। अर्यम्णः। नवमी। धातुः। दशमी। इन्द्रस्य। एकादशी। वरुणस्य। द्वादशी। यमस्य। त्रयोदशीति त्रयःदशी॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
अग्नेः) पावकस्य (पक्षतिः) पक्षस्य परिग्रहस्य मूलम् (वायोः) पवनस्य (निपक्षतिः) निश्चितस्य मूलम् (इन्द्रस्य) (तृतीया) त्रयाणां पूरणा क्रिया (सोमस्य) चन्द्रस्य (चतुर्थी) चतुर्णां पूरणा (अदित्यै) अन्तरिक्षस्य (पञ्चमी) पञ्चानां पूरणा (इन्द्राण्यै) इन्द्रस्य विद्युद्रूपस्य स्त्रीव वर्त्तमानायै दीप्त्यै (षष्ठी) षण्णां पूरणा (मरुताम्) वायूनाम् (सप्तमी) सप्तानां पूरणा (बृहस्पतेः) बृहतां पालकस्य महत्तत्त्वस्य (अष्टमी) अष्टानां पूरणा (अर्यम्णः) अर्याणां स्वामिनां सत्कर्त्तुः (नवमी) नवानां पूरणा (धातुः) धारकस्य (दशमी) दशानां पूरणा (इन्द्रस्य) ऐश्वर्यवतः (एकादशी) एकादशानां पूरणा (वरुणस्य) श्रेष्ठस्य (द्वादशी) द्वादशनां पूरणा (यमस्य) न्यायाधीशस्य (त्रयोदशी) त्रयोदशानां पूरणा॥४॥
Essence
हे मनुष्याः! युष्माभिः क्रियाविज्ञानसाधनैरग्न्यादीनां गुणान् विदित्वा सर्वाणि कार्य्याणि साधनीयानि॥४॥
Subject
पुनः कस्य का क्रिया कर्त्तव्येत्याह॥
Anvaya
हे मनुष्याः! युष्माभिरग्ने पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुतां सप्तमी बृहस्पतेरष्टम्यर्यम्णो नवमी धातुर्दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी च क्रियाः कर्त्तव्याः॥४॥