Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 25 / Mantra 28

48 Mantra
25/28
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
होता॑ध्व॒र्युराव॑याऽअग्निमि॒न्धो ग्रा॑वग्रा॒भऽउ॒त शस्ता॒ सुवि॑प्रः। तेन॑ य॒ज्ञेन॒ स्वरङ्कृतेन॒ स्विष्टेन व॒क्षणा॒ऽआ पृ॑णध्वम्॥२८॥

होता॑ अ॒ध्व॒र्युः। आव॑या॒ इत्याऽव॑याः। अ॒ग्नि॒मि॒न्ध इत्या॑ग्निम्ऽइ॒न्धः। ग्रा॒व॒ग्रा॒भ इति॑ ग्रावऽग्रा॒भः। उ॒त। शस्ता॑। सुवि॑प्र॒ इति॑ सुऽवि॑प्रः। तेन॑। य॒ज्ञेन॑। स्व॑रङ्कृते॒नेति॒ सुऽअ॑रङ्कृतेन। स्वि᳖ष्टे॒नेति॒ सुऽइ॑ष्टेन। व॒क्षणाः॑। आ। पृ॒ण॒ध्व॒म् ॥२८ ॥

Mantra without Swara
होताध्वर्युरावयाऽअग्निमिन्धो ग्रावग्राभऽउत शँस्ता सुविप्रः । तेन यज्ञेन स्वरङ्तेन स्विष्टेन वक्षणाऽआ पृणध्वम् ॥

होता अध्वर्युः। आवया इत्याऽवयाः। अग्निमिन्ध इत्याग्निम्ऽइन्धः। ग्रावग्राभ इति ग्रावऽग्राभः। उत। शस्ता। सुविप्र इति सुऽविप्रः। तेन। यज्ञेन। स्वरङ्कृतेनेति सुऽअरङ्कृतेन। स्विष्टेनेति सुऽइष्टेन। वक्षणाः। आ। पृणध्वम्॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) आदाता (अध्वर्युः) अहिंसायज्ञमिच्छुः (आवयाः) येनावयजन्ति सः (अग्निमिन्धः) अग्निप्रदीपकः (ग्रावग्राभः) यो ग्रावाणं मेघं गृह्णाति सः (उत) (शंस्ता) प्रशंसकः (सुविप्रः) शोभना विप्रा मेधाविनो यस्मिन् सः (तेन) (यज्ञेन) संगतेन (स्वरङ्कृतेन) सुष्ठ्वलंकृतेन। अत्र कपिलकादित्वाद् रेफः। (स्विष्टेन) शोभनेनेष्टेन (वक्षणाः) नदीः। वक्षणा इति नदीनामसु पठितम्॥ (निघं॰१।१३) (आ) (पृणध्वम्) समान्तात् सुखयत॥२८॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सुगन्ध्यादिसुसंस्कृतानां हविषां वह्नौ प्रक्षेपेण वायुवर्षाजलादीनि शोधयित्वा नद्यादिजलानि शोधयन्ति, ते सदा सुखयन्ति॥२८॥
Subject
पुनर्मनुष्याः किं कुर्युरित्याह॥
Anvaya
हे मनुष्याः! यथा होताऽऽवया अग्निमिन्धो ग्रावग्राभः शंस्तोत सुविप्रोऽध्वर्युर्येन स्वरंकृतेन स्विष्टेन यज्ञेन वक्षणा अलङ्करोति, तथा तेन यूयमप्यापृणध्वम्॥२८॥