Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 25 / Mantra 22

48 Mantra
25/22
Devata- विद्वांसो देवता Rishi- गोतम ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
श॒तमिन्नु श॒रदो॒ऽअन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म्।पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः॑॥२२॥

श॒तम्। इत्। नु। श॒रदः॑। अन्ति॑। दे॒वाः॒। यत्र॑। नः॒। च॒क्र। ज॒रस॑म्। त॒नूना॑म्। पु॒त्रासः॑। यत्र॑। पि॒तरः॑। भव॑न्ति। मा। नः॒। म॒ध्या। री॒रि॒ष॒त॒। रि॒रि॒ष॒तेति॑ रिरिषत। आयुः॑। गन्तोः॑ ॥२२ ॥

Mantra without Swara
शतमिन्नु शरदोऽअन्ति देवा यत्रा नश्चक्रा जरसन्तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥

शतम्। इत्। नु। शरदः। अन्ति। देवाः। यत्र। नः। चक्र। जरसम्। तनूनाम्। पुत्रासः। यत्र। पितरः। भवन्ति। मा। नः। मध्या। रीरिषत। रिरिषतेति रिरिषत। आयुः। गन्तोः॥२२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(शतम्) शतवार्षिकम् (इत्) एव (नु) सद्यः (शरदः) शरदृत्वन्तानि (अन्ति) अन्तिके (देवाः) विद्वांसः (यत्र) यस्मिन्। अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (नः) अस्माकम् (चक्र) कुर्वन्तु। अत्र द्व्यचोऽतस्तिङः [अ॰६.३.१३५] इति दीर्घः। (जरसम्) जराः (तनूनाम्) शरीराणाम् (पुत्रासः) वृद्धावस्थाजन्यदुःखात् त्रातारः (यत्र) (पितरः) पितर इव वर्त्तमानाः (भवन्ति) (मा) (नः) अस्माकम् (मध्या) पूर्णायुषो भोगस्य मध्ये (रीरिषत) घ्नत (आयुः) जीवनम् (गन्तोः) गमनम्॥२२॥
Essence
मनुष्यैर्दीर्घमष्टचत्वारिंशद्वर्षपरिमितं ब्रह्मचर्यं सदा सेवनीयम्। येन पितृषु विद्यमानेषु पुत्रा अपि पितरो भवेयुः। यदा शतवार्षिकमायुर्व्यतीयात् तदैव शरीराणां जराऽवस्था भवेत्। यदि ब्रह्मचर्येण सह न्यूनान्न्यूनानि पञ्चविंशतिर्वर्षाणि व्यतीतानि स्युस्ततः पश्चादप्यतिमैथुनेन ये वीर्यक्षयं कुर्वन्ति, तर्हि ते सरोगा निर्बुद्धयो भूत्वा दीर्घायुषः कदापि न भवन्ति॥२२॥
Subject
पुनरस्मदर्थं के किं कुर्युरित्याह॥
Anvaya
हे देवा! भवदन्ति स्थितानां नोऽस्माकं यत्र तनूनां जरसं शतं शरदः स्युस्तन्नु चक्र। यत्र पुत्रास इत्पितरो भवन्ति तन्नो गन्तोरायुर्मध्या मा रीरिषत॥२२॥