Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 25 / Mantra 21

48 Mantra
25/21
Devata- विद्वांसो देवता Rishi- गोतम ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वास॑स्त॒नूभि॒र्व्यशेमहि दे॒वहि॑तं॒ यदायुः॑॥२१॥

भ॒द्रम्। कर्णे॑भिः। शृ॒णु॒या॒म॒। दे॒वाः॒। भ॒द्रम्। प॒श्ये॒म॒। अ॒क्षभि॒रित्य॒क्षऽभिः॑। य॒ज॒त्राः॒। स्थि॒रैः। अङ्गैः॑। तु॒ष्टु॒वासः॑। तु॒स्तु॒वास॒ इति॑ तुस्तु॒ऽवासः॑। त॒नूभिः॑। वि। अ॒शे॒म॒हि॒। दे॒वहि॑त॒मिति॑ दे॒वऽहि॑तम्। यत्। आयुः॑ ॥२१ ॥

Mantra without Swara
भद्रङ्कर्णेभिः शृणुयाम देवा भद्रम्पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेमहि देवहितँयदायुः ॥

भद्रम्। कर्णेभिः। शृणुयाम। देवाः। भद्रम्। पश्येम। अक्षभिरित्यक्षऽभिः। यजत्राः। स्थिरैः। अङ्गैः। तुष्टुवासः। तुस्तुवास इति तुस्तुऽवासः। तनूभिः। वि। अशेमहि। देवहितमिति देवऽहितम्। यत्। आयुः॥२१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(भद्रम्) सत्यलक्षणकरं वचः (कर्णेभिः) श्रोत्रैः (शृणुयाम) (देवाः) विद्वांसः (भद्रम्) कल्याणम् (पश्येम) (अक्षभिः) चक्षुर्भिः (यजत्राः) संगन्तारः (स्थिरैः) दृढैः (अङ्गैः) अवयवैः (तुष्टुवांसः) स्तुवन्तः (तनूभिः) शरीरैः (वि, अशेमहि) प्राप्नुयाम (देवहितम्) देवेभ्यो विद्वद्भ्यो हितम् (यत्) (आयुः) जीवनम्॥२१॥
Essence
यदि मनुष्या विद्वत्सङ्गे विद्वांसो भूत्वा सत्यं शृणुयुः सत्यं पश्येयुर्जगदीश्वरं स्तुयुस्तर्हि ते दीर्घायुषो भवेयुः। मनुष्यैरसत्यश्रवणं कुदर्शनं मिथ्यास्तुतिर्व्यभिचारश्च कदापि नैव कर्त्तव्यः॥२१॥
Subject
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह॥
Anvaya
हे यजत्रा देवा विद्वांसो! भवत्सङ्गेन वयं कर्णेभिर्भद्रं शृणुयामाक्षभिभद्रं पश्येम स्थिरैरङ्गैस्तुष्टुवांसः सन्तस्तूनभिर्यद्देवहितमायुस्तद् व्यशेमहि॥२१॥