Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 25 / Mantra 20

48 Mantra
25/20
Devata- विद्वांसो देवता Rishi- गोतम ऋषिः Chhand- जगती Swara- निषादः
Mantra with Swara
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒ यावा॑नो वि॒दथे॑षु जग्म॑यः।अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वाऽअव॒साग॑मन्नि॒ह॥२०॥

पृष॑दश्वा॒ इति॒ पृष॑त्ऽअश्वाः। म॒रुतः॑। पृश्नि॑मातर॒ इति॒ पृश्नि॑ऽमातरः। शु॒भं॒यावा॑न॒ इति॑ शुभ॒म्ऽयावा॑नः। वि॒दथे॑षु जग्म॑यः अ॒ग्नि॒जि॒ह्वा इत्य॑ग्निऽजिह्वाः। मन॑वः। सूर॑चक्षस॒ इति॒ सूर॑ऽचक्षसः। विश्वे॑। नः॒। दे॒वाः। अव॑सा। आ। अ॒ग॒म॒न्। इ॒ह ॥२० ॥

Mantra without Swara
पृषदश्वा मरुतः पृश्निमातरः शुभँयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवाऽअवसा गमन्निह ॥

पृषदश्वा इति पृषत्ऽअश्वाः। मरुतः। पृश्निमातर इति पृश्निऽमातरः। शुभंयावान इति शुभम्ऽयावानः। विदथेषु जग्मयः अग्निजिह्वा इत्यग्निऽजिह्वाः। मनवः। सूरचक्षस इति सूरऽचक्षसः। विश्वे। नः। देवाः। अवसा। आ। अगमन्। इह॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पृषदश्वाः) पृषतः पुष्ट्यादिना संसिक्ताङ्गा अश्वा येषान्ते (मरुतः) मनुष्याः (पृश्निमातरः) पृश्निरन्तरिक्षं माता येषां वायूनां ते इव (शुभंयावानः) ये शुभं कल्याणं यान्ति प्राप्नुवन्ति ते। अत्र वाच्छन्दसि सर्वे विधयो भवन्तीति द्वितीयाया अलुक्। (विदथेषु) संग्रामेषु (जग्मयः) संगन्तारः (अग्निजिह्वाः) अग्निरिव सुप्रकाशिता जिह्वा वाणी येषान्ते। जिह्वेति वाङ्नामसु पठितम्॥ (निघं॰१।११) (मनवः) मननशीलाः (सूरचक्षसः) सूर ऐश्वर्ये प्रेरणे वा चक्षो दर्शनं येषान्ते (विश्वे) सर्वे (नः) अस्मान् (देवाः) विद्वांसः (अवसा) रक्षणाद्येन सह (आ) (अगमन्) प्राप्नुवन्तु (इह) अस्मिन् संसारे वर्त्तमानसमये वा॥२०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्विदुषां सङ्गः सदैव प्रार्थनीयो यथाऽस्मिञ्जगति सर्वे वायवः सर्वेषां जीवनहेतवः सन्ति, तथात्र जङ्गमेषु विद्वांसः सन्ति॥२०॥
Subject
पुनः के किं कुर्युरित्याह॥
Anvaya
ये पृश्निमातर इव पृषदश्वा मरुतो विदथेषु शुभंयावानो जग्मयोऽग्निजिह्वाः सूरचक्षसो विश्वे देवा मनवोऽवसा सह वर्त्तन्ते, त इह नोऽस्मानागमन्॥२०॥