Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 25 / Mantra 19

48 Mantra
25/19
Devata- ईश्वरो देवता Rishi- गोतम ऋषिः Chhand- स्वराड् बृहती Swara- मध्यमः
Mantra with Swara
स्व॒स्ति न॒ऽइन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः।स्व॒स्ति न॒स्तार्क्ष्यो॒ऽअरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥१९॥

स्व॒स्ति। नः॒। इन्द्रः॑। वृ॒द्धश्र॑वा॒ इति॑ वृ॒द्धऽश्र॑वाः। स्व॒स्ति। नः॒। पू॒षा। वि॒श्ववेदा॒ इति॑ वि॒श्वऽवे॑दाः। स्व॒स्ति। नः॒। तार्क्ष्यः॑। अरि॑ष्टनेमि॒रित्यरि॑ष्टऽनेमिः। स्व॒स्ति। नः॒। बृह॒स्पतिः॑। द॒धा॒तु॒ ॥१९ ॥

Mantra without Swara
स्वस्ति नऽइन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्या अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

स्वस्ति। नः। इन्द्रः। वृद्धश्रवा इति वृद्धऽश्रवाः। स्वस्ति। नः। पूषा। विश्ववेदा इति विश्वऽवेदाः। स्वस्ति। नः। तार्क्ष्यः। अरिष्टनेमिरित्यरिष्टऽनेमिः। स्वस्ति। नः। बृहस्पतिः। दधातु॥१९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(स्वस्ति) सुखम् (नः) अस्मभ्यम् (इन्द्रः) परमैश्वर्यवानीश्वरः (वृद्धश्रवाः) वृद्धं श्रवः श्रवणं यस्य सः (स्वस्ति) (नः) (पूषा) सर्वतः पोषकः (विश्ववेदाः) विश्वं सर्वं जगद्वेदो धनं यस्य सः (स्वस्ति) (नः) (तार्क्ष्यः) अश्व इव। तार्क्ष्य इत्यश्वनामसु पठितम्॥ (निघं॰१।१४) (अरिष्टनेमिः) योऽरिष्टानि सुखानि प्रापयति सः। अत्रारिष्टोपपदाण्णीञ् प्रापणे धातोरौणादिको मिः प्रत्ययः। (स्वस्ति) (नः) (बृहस्पतिः) बृहतां महत्तत्त्वादीनां स्वामी पालकः (दधातु)॥१९॥
Essence
मनुष्यैर्यथा स्वार्थे सुखमेष्टव्यं तथाऽन्यार्थमप्येषितव्यं यथा कश्चिदपि स्वार्थे दुःखं नेच्छति तथा परार्थमपि नैषितव्यम्॥१९॥
Subject
पुनर्मनुष्यैः किमेष्टव्यमित्याह॥
Anvaya
हे मनुष्याः! यो वृद्धश्रवा इन्द्रो नः स्वस्ति, यो विश्ववेदाः पूषा नः स्वस्ति, यर्स्ताक्ष्य इवारिष्टनेमिः सन्नः स्वस्ति, यो बृहस्पतिर्नः स्वस्ति दधातु, स युष्मभ्यमपि सुखं दधातु॥१९॥