Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 25 / Mantra 16

48 Mantra
25/16
Devata- विश्वेदेवा देवताः Rishi- प्रजापतिर्ऋषिः Chhand- जगती Swara- निषादः
Mantra with Swara
तान् पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म्।अ॒र्य॒मणं॒ वरु॑ण॒ꣳ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत्॥१६॥

तान्। पूर्व॑या। नि॒विदेति॑ नि॒ऽविदा॑। हू॒म॒हे॒। व॒यम्। भग॑म्। मि॒त्रम्। अदि॑तिम्। दक्ष॑म्। अ॒स्रिध॑म्। अ॒र्य॒मण॑म्। वरु॑णम्। सोम॑म्। अ॒श्विना॑। सर॑स्वती। नः॒। सु॒भगेति॑ सु॒ऽभगा॑। मयः॑। क॒र॒त्॥१६ ॥

Mantra without Swara
तान्पूर्वया निविदा हूमहे वयम्भगम्मित्रमदितिन्दक्षमस्रिधम् । अर्यमणँवरुणँ सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥

तान्। पूर्वया। निविदेति निऽविदा। हूमहे। वयम्। भगम्। मित्रम्। अदितिम्। दक्षम्। अस्रिधम्। अर्यमणम्। वरुणम्। सोमम्। अश्विना। सरस्वती। नः। सुभगेति सुऽभगा। मयः। करत्॥१६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तान्) पूर्वोक्तान् (पूर्वया) पूर्वैः स्वीकृतया (निविदा) वेदवाचा। निविदिति वाङ्नामसु पठितम्॥ (निघं॰१।११) (हूमहे) स्पर्द्धेमहि (वयम्) (भगम्) ऐश्वर्यकारकम् (मित्रम्) सर्वस्य सुहृदम् (अदितिम्) अखण्डितप्रज्ञम् (दक्षम्) चतुरम् (अस्रिधम्) अहिंसनीयम् (अर्यमणम्) प्रजायाः पालकम् (वरुणम्) श्रेष्ठम् (सोमम्) ऐश्वर्यवन्तम् (अश्विना) अध्यापकोपदेशकौ (सरस्वती) सर्वविद्यायुक्ता (नः) अस्मभ्यम् (सुभगा) सुष्ठ्वैश्वर्या (मयः) सुखम् (करत्) कुर्यात्॥१६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यद्यद्वेद्वोक्तं कर्म तत्तदेवानुष्ठेयं यथा सद्विद्यार्थिनः स्पर्द्धया विद्यां वर्द्धयन्ति, तथैव सर्वैर्विद्या वर्द्धनीया। यथा पूर्णविद्या माता सन्तानान् सुशिक्षया विद्याः प्रापय्य वर्द्धयति, तथैव सर्वैः सुखं दत्त्वा सर्वे वर्द्धनीयाः॥१६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यथा वयं पूर्वया निविदा दक्षमर्यमणमस्रिधं भगं मित्रमदितिं वरुणं सोममश्विना हूमहे यथा सुभगा सरस्वती नो युष्मभ्यं च मयस्करत् तथा तान् यूयमप्याह्वयत कुरुत च॥१६॥