Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 9

40 Mantra
24/9
Devata- अग्न्यादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- निचृत् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
कृ॒ष्णग्री॑वाऽआग्ने॒या ब॒भ्रवः॑ सौ॒म्याः श्वे॒ता वा॑य॒व्याऽअवि॑ज्ञाता॒ऽअदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो दे॒वानां॒ पत्नी॑भ्यः॥९॥

कृ॒ष्णग्री॑वा॒ इति॑ कृ॒ष्णऽग्री॑वाः। आ॒ग्ने॒याः। ब॒भ्रवः॑। सौ॒म्याः। श्वे॒ताः। वा॒य॒व्याः᳕। अवि॑ज्ञाता॒ इत्यवि॑ऽज्ञाताः। अदि॑त्यै। सरू॑पा॒ऽइति॒ सऽरू॑पाः। धा॒त्रे। व॒त्स॒त॒र्य्यः᳖। दे॒वाना॑म्। पत्नी॑भ्यः ॥९ ॥

Mantra without Swara
कृष्णग्रीवाऽआग्नेया बभ्रवः सौम्याः श्वेता वायव्या अविज्ञाता अदित्यै सरूपा धात्रे वत्सतर्या देवानाम्पत्नीभ्यः ॥

कृष्णग्रीवा इति कृष्णऽग्रीवाः। आग्नेयाः। बभ्रवः। सौम्याः। श्वेताः। वायव्याः। अविज्ञाता इत्यविऽज्ञाताः। अदित्यै। सरूपाऽइति सऽरूपाः। धात्रे। वत्सतर्य्यः। देवानाम्। पत्नीभ्यः॥९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(कृष्णग्रीवाः) कृष्णकण्ठाः (आग्नेयाः) अग्निदेवताकाः (बभ्रवः) नकुलवर्णवद्वर्णयुक्ताः (सौम्याः) सोमदेवताकाः (श्वेताः) (वायव्याः) वायुदेवताकाः (अविज्ञाताः) न विशेषेण ज्ञाता विदिताः (अदित्यै) अखण्डितायै जनित्वक्रियायै। अदितिर्जनित्वमिति मन्त्रप्रामाण्यादत्रादितिशब्देन गृह्यते (सरूपाः) समानं रूपं यासां ताः (धात्रे) धारकाय वायवे (वत्सतर्य्यः) अतिशयेन वत्साः (देवानाम्) सूर्यादीनाम् (पत्नीभ्यः) पालिकाभ्यः क्रियाभ्यः॥९॥
Essence
ये पशवः कर्षका निगलकास्त अग्निवद्वर्त्तमानाः। य ओषधीवद्धारकाः, य आवरकास्ते वायुवद्वर्त्तमानाः। येऽविज्ञातास्ते प्रजननाय, ये धातृगुणास्ते धारणाय, ये सूर्यकिरणवद्वर्त्तमानाः पदार्था सन्ति, ते व्यवहारसाधने प्रयोज्याः॥९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! युष्माभिर्ये कृष्णग्रीवास्त आग्नेयाः, ये बभ्रवस्ते सौम्याः, ये श्वेतास्ते वायव्याः, येऽविज्ञातास्तेऽदित्यै, ये सरूपास्ते धात्रे, या वत्सतर्यस्ताश्च देवानां पत्नीभ्यो विज्ञेयाः॥९॥