Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 8

40 Mantra
24/8
Devata- इन्द्राग्न्यादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- स्वराट् बृहती Swara- मध्यमः
Mantra with Swara
एता॑ऽऐन्द्रा॒ग्ना द्वि॑रू॒पाऽअ॑ग्नीषो॒मीया॑ वाम॒नाऽअ॑न॒ड्वाह॑ऽ आग्नावैष्ण॒वा व॒शा मै॑त्रावरु॒ण्योऽन्यत॑ऽएन्यो मै॒त्र्यः॥८॥

एताः॑। ऐ॒न्द्रा॒ग्नाः। द्वि॒रू॒पा इति॑ द्विऽरू॒पाः। अ॒ग्नी॒षो॒मीयाः॑। वा॒म॒नाः। अ॒न॒ड्वाहः॑। आ॒ग्ना॒वै॒ष्ण॒वाः। व॒शा। मै॒त्रा॒व॒रु॒ण्यः᳕। अ॒न्यत॑एन्य॒ इत्य॒न्यतः॑ऽएन्यः। मै॒त्र्यः᳖ ॥८ ॥

Mantra without Swara
एताऽऐन्द्राग्ना द्विरूपाऽअग्नीषोमीया वामनाऽअनड्वाहऽआग्नावैष्णवा वशा मैत्रावरुण्योन्यतऽएन्यो मैत्र्यः ॥

एताः। ऐन्द्राग्नाः। द्विरूपा इति द्विऽरूपाः। अग्नीषोमीयाः। वामनाः। अनड्वाहः। आग्नावैष्णवाः। वशा। मैत्रावरुण्यः। अन्यतएन्य इत्यन्यतःऽएन्यः। मैत्र्यः॥८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एताः) पूर्वोक्ताः (ऐन्द्राग्नाः) वायुविद्युत्सङ्गिनः (द्विरूपाः) द्वे रूपे यासां ताः (अग्नीषोमीयाः) सोमाग्निदेवताकाः (वामनाः) वक्रावयवाः (अनड्वाहः) वृषभाः (आग्नावैष्णवाः) अग्निवायुदेवताकाः (वशाः) वन्ध्या गावः (मैत्रावरुण्यः) प्राणोदानदेवताकाः (अन्यतएन्यः) या अन्यतो यन्ति प्राप्नुवन्ति ताः (मैत्र्यः) मित्रस्य प्रिये वर्त्तमानाः॥८॥
Essence
ये मनुष्या वाय्वग्न्यादिगुणान् पशून् पालयन्ति, ते सर्वोपकारका भवन्ति॥८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्या युष्माभिर्या एता द्विरूपाः सन्ति ता ऐन्द्राग्नाः। ये वामना अनड्वाहः सन्ति तेऽग्नीषोमीया आग्नावैष्णवाश्च। या वशाः सन्ति ता मैत्रावरुण्यः। या अन्यतएन्यः सन्ति ताश्च मैत्र्यो विज्ञेयाः॥८॥