Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 7

40 Mantra
24/7
Devata- इन्द्रादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- अतिजगती Swara- निषादः
Mantra with Swara
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्तऽएे॑न्द्रावैष्ण॒वाऽउ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्तऽऐ॑न्द्राबार्हस्प॒त्याः शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ऽआग्निमारु॒ताः श्या॒माः पौ॒ष्णाः॥७॥

उ॒न्न॒त इत्यु॑त्ऽन॒तः। ऋ॒ष॒भः। वा॒म॒नः। ते। ऐ॒न्द्रा॒वै॒ष्ण॒वाः। उ॒न्न॒त इत्यु॑त्ऽन॒तः। शि॒ति॒बा॒हुरिति॑ शितिऽबा॒हुः। शि॒ति॒पृ॒ष्ठ इति॑ शितिऽपृ॒ष्ठः। ते। ऐ॒न्द्रा॒बा॒र्ह॒स्प॒त्याः। शुक॑रू॒पा इति॒ शुक॑ऽरू॒पाः। वा॒जि॒नाः। क॒ल्माषाः॑। आ॒ग्नि॒मा॒रु॒ता इत्या॑ग्निमारु॒ताः। श्या॒माः। पौ॒ष्णाः ॥७ ॥

Mantra without Swara
उन्नतऽऋषभो वामनस्तऽऐन्द्रवैष्णवाऽउन्नतः शितिबाहुः शितिपृष्ठस्तऽऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषाऽआग्निमारुताः श्यामाः पौष्णा ॥

उन्नत इत्युत्ऽनतः। ऋषभः। वामनः। ते। ऐन्द्रावैष्णवाः। उन्नत इत्युत्ऽनतः। शितिबाहुरिति शितिऽबाहुः। शितिपृष्ठ इति शितिऽपृष्ठः। ते। ऐन्द्राबार्हस्पत्याः। शुकरूपा इति शुकऽरूपाः। वाजिनाः। कल्माषाः। आग्निमारुता इत्याग्निमारुताः। श्यामाः। पौष्णाः॥७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उन्नतः) उच्छ्रितः (ऋषभः) श्रेष्ठः (वामनः) वक्राङ्गः (ते) (ऐन्द्रावैष्णवाः) विद्युद्वायुदेवताकाः (उन्नतः) (शितिबाहुः) शिती तनूकर्त्तारौ बाहू इव बलं यस्य सः (शितिपृष्ठः) शितिस्तनूकरणं पृष्ठं यस्य सः (ते) (ऐन्द्राबार्हस्पत्याः) वायुसूर्यदेवताकाः (शुकरूपाः) शुकस्य रूपमिव रूपं येषान्ते (वाजिनाः) वेगवन्तः (कल्माषाः) श्वेतकृष्णवर्णाः (आग्निमारुताः) अग्निवायुदेवताकाः (श्यामाः) श्यामवर्णाः (पौष्णाः) पुष्टिनिमित्त-मेघदेवताकाः॥७॥
Essence
ये मनुष्याः पशूनामुन्नतिं पुष्टिं च कुर्वन्ति ते नानाविधानि सुखानि लभन्ते॥७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्या! भवद्भिर्ये उन्नत ऋषभो वामनश्च सन्ति, त ऐन्द्रावैष्णवाः। य उन्नतः शितिबाहुः शितिपृष्ठश्च सन्ति, त ऐन्द्राबार्हस्पत्याः। ये शुकरूपा वाजिनाः कल्माषाः सन्ति, त आग्निमारुताः। ये श्यामाः सन्ति, ते च पौष्णाः विज्ञेयाः॥७॥