Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 6

40 Mantra
24/6
Devata- अग्न्यादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- विराट् त्रिष्टुप् Swara- ऋषभः
Mantra with Swara
कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑ना॒ रोहि॑ता रु॒द्राणा॑ श्वे॒ताऽअ॑वरो॒किण॑ऽ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः॥६॥

कृ॒ष्णग्री॑वा॒ इति॑ कृ॒ष्णऽग्री॑वाः। आ॒ग्ने॒याः। शि॒ति॒भ्रव॒ इति॑ शिति॒भ्रवः॑। वसू॑नाम्। रोहि॑ताः। रु॒द्राणा॑म्। श्वे॒ताः। अ॒व॒रो॒किण॒ इत्य॑वऽरो॒किणः॑। आ॒दि॒त्याना॑म्। नभो॑रू॒पा॒ इति॒ नभः॑ऽरूपाः। पार्ज॒न्याः ॥६ ॥

Mantra without Swara
कृष्णग्रीवाऽआग्नेयाः शितिभ्रवो वसूनाँ रोहिता रुद्राणाँ श्वेता अवरोकिण आदित्यानान्नभोरूपाः पार्जन्याः ॥

कृष्णग्रीवा इति कृष्णऽग्रीवाः। आग्नेयाः। शितिभ्रव इति शितिभ्रवः। वसूनाम्। रोहिताः। रुद्राणाम्। श्वेताः। अवरोकिण इत्यवऽरोकिणः। आदित्यानाम्। नभोरूपा इति नभःऽरूपाः। पार्जन्याः॥६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(कृष्णग्रीवाः) कृष्णा कर्षिका ग्रीवा निगरणं येषान्ते (आग्नेयाः) अग्निदेवताकाः (शितिभ्रवः) शितिश्श्वेताः भ्रूर्भ्रकुटिर्यासां ताः (वसूनाम्) पृथिव्यादीनाम् (रोहिताः) रक्तवर्णाः (रुद्राणाम्) प्राणादीनाम् (श्वेताः) श्वेतवर्णाः (अवरोकिणः) अवरोधकाः (आदित्यानाम्) सूर्यसम्बन्धिकां मासानाम् (नभोरूपाः) नभ उदकमिव रूपं येषां ते (पार्जन्याः) मेघदेवताकाः॥६॥
Essence
मनुष्यैरग्नेराकर्षणक्रिया पृथिव्यादीनां धारणक्रिया वायूनां प्ररोहणक्रिया आदित्यानामवरोधिका मेघानां च जलवर्षिकाः क्रिया विदित्वा कार्येषूपयोज्याः॥६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्या ये कृष्णग्रीवास्त आग्नेयाः। ये शितिभ्रवस्ते वसूनां ये रोहितास्ते रुद्राणां ये श्वेता अवरोकिणस्त आदित्यानां ये नभोरूपास्ते च पार्जन्याः बोध्याः॥६॥