Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 4

40 Mantra
24/4
Devata- मरुतादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- विराडतिधृतिः Swara- षड्जः
Mantra with Swara
पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्यः प्लीहा॒कर्णः॑ शुण्ठा॒कर्णो॑ऽध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्तऽएे॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जि॒र्महाञ्जि॒स्तऽउ॑ष॒स्याः॥४॥

पृश्निः॑। ति॒र॒श्चीन॑पृश्नि॒रिति॑ तिर॒श्चीन॑ऽपृश्निः। ऊ॒र्ध्वपृ॑श्नि॒रित्यू॒र्ध्वऽपृ॑श्निः। ते। मा॒रु॒ताः। फ॒ल्गूः। लो॒हि॒तो॒र्णीति॑ लोहितऽऊ॒र्णी। प॒ल॒क्षी। ताः। सा॒र॒स्व॒त्यः᳖। प्ली॒हा॒कर्णः॑। प्ली॒ह॒कर्ण॒ इति॑ प्लीह॒ऽकर्णः॑। शु॒ण्ठा॒कर्णः॑। शु॒ण्ठ॒कर्णः॑ इति॑ शुण्ठ॒ऽकर्णः॑। अ॒ध्या॒लो॒ह॒कर्ण॒ इत्य॑ध्यालोह॒ऽकर्णः॑। ते। त्वा॒ष्ट्राः। कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्णऽग्री॑वः। शि॒ति॒कक्ष॒ऽइति॑ शिति॒ऽकक्षः॑। अ॒ञ्जि॒स॒क्थऽइत्य॑ञ्जिऽस॒क्थः। ते। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाञ्जि॒रिति॑ कृ॒ष्णऽअ॑ञ्जिः। अल्पा॑ञ्जि॒रित्यल्प॑ऽअञ्जिः। म॒हाञ्जि॒रिति॑ म॒हाऽअ॑ञ्जिः। ते। उ॒ष॒स्याः᳖ ॥४ ॥

Mantra without Swara
पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निस्ते मारुताः फल्गूर्लाहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णा द्धयालोहकर्णस्ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षोञ्जिसक्थस्तऽऐन्द्राग्नाः कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्तऽउषस्याः ॥

पृश्निः। तिरश्चीनपृश्निरिति तिरश्चीनऽपृश्निः। ऊर्ध्वपृश्निरित्यूर्ध्वऽपृश्निः। ते। मारुताः। फल्गूः। लोहितोर्णीति लोहितऽऊर्णी। पलक्षी। ताः। सारस्वत्यः। प्लीहाकर्णः। प्लीहकर्ण इति प्लीहऽकर्णः। शुण्ठाकर्णः। शुण्ठकर्णः इति शुण्ठऽकर्णः। अध्यालोहकर्ण इत्यध्यालोहऽकर्णः। ते। त्वाष्ट्राः। कृष्णग्रीव इति कृष्णऽग्रीवः। शितिकक्षऽइति शितिऽकक्षः। अञ्जिसक्थऽइत्यञ्जिऽसक्थः। ते। ऐन्द्राग्नाः। कृष्णाञ्जिरिति कृष्णऽअञ्जिः। अल्पाञ्जिरित्यल्पऽअञ्जिः। महाञ्जिरिति महाऽअञ्जिः। ते। उषस्याः॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पृश्निः) प्रष्टव्यः (तिरश्चीनपृश्निः) तिरश्चीनः पृश्निः स्पर्शो यस्य सः (ऊर्ध्वपृश्निः) ऊर्ध्व उत्कृष्टः पृश्निः स्पर्शो यस्य सः (ते) (मारुताः) मरुद्देवताकाः (फल्गूः) या फलानि गच्छति प्राप्नोति सा (लोहितोर्णी) लोहिता ऊर्णा यस्याः सा (पलक्षी) पले चञ्चले अक्षिणी यस्याः सा (ताः) (सारस्वत्यः) सरस्वतीदेवताकाः (प्लीहाकर्णः) प्लीहेव कर्णे यस्य सः (शुण्ठाकर्णः) शुण्ठौ शुष्कौ कर्णौ यस्य सः (अध्यालोहकर्णः) अधिगतं च तल्लोहं च सुवर्णं तद्वद्कर्णौ यस्य सः। लोहमिति हिरण्यनामसु पठितम्॥ (निघं॰१।२) (ते) (त्वाष्ट्राः) त्वष्टृदेवताकाः (कृष्णग्रीवः) कृष्णा ग्रीवा यस्य सः (शितिकक्षः) शिती श्वेतौ कक्षौ पार्श्वौ यस्य सः (अञ्जिसक्थः) अञ्जीनि प्रसिद्धानि सक्थीनि यस्य सः (ते) (ऐन्द्राग्नाः) वायुविद्युद्देवताकाः (कृष्णाञ्जिः) कृष्णा विलिखिता अञ्जिर्मतिर्यस्य सः (अल्पाञ्जिः) अल्पगतिः (महाञ्जिः) महागतिः (ते) (उषस्याः) उषोदेवताकाः॥४॥
Essence
ये पशवः पक्षिणश्च वायुगुणा ये नदीगुणा ये सूर्य्यगुणा ये वायुविद्युद्गुणा ये चोषोगुणाः सन्ति, तैस्तदनुकूलानि कार्य्याणि साधनीयानि॥४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्या ये पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निश्च सन्ति ते मारुताः। याः फल्गूर्लोहितोर्णी पलक्षी च सन्ति ताः सारस्वत्यः। ये प्लीहाकर्णः शुण्ठाकर्णोऽध्यालोहकर्णश्च सन्ति ते त्वाष्ट्राः। ये कृष्णग्रीवः शितिकक्षोऽञ्जिसक्थश्च सन्ति त ऐन्द्राग्नाः। ये कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिश्च सन्ति त उषस्याश्च भवन्तीति वेद्यम्॥४॥