Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 39

40 Mantra
24/39
Devata- आदित्यादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- स्वराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
श्वि॒त्रऽआ॑दि॒त्याना॒मुष्ट्रो॒ घृणी॑वान् वार्ध्रीन॒सस्ते म॒त्याऽअर॑ण्याय सृम॒रो रुरू॑ रौ॒द्रः क्वयिः॑ कु॒टरु॑र्दात्यौ॒हस्ते वा॒जिनां॒ कामा॑य पि॒कः॥३९॥

श्वि॒त्रः। आ॒दि॒त्याना॑म्। उष्ट्रः॑। घृणी॑वान्। घृणि॑वा॒निति॒ घृणि॑ऽवान्। वा॒र्ध्री॒न॒सः। ते। म॒त्यै। अर॑ण्याय। सृ॒म॒रः। रुरुः॑। रौ॒द्रः। क्वयिः॑। कु॒टरुः॑। दा॒त्यौ॒हः। ते। वा॒जिना॑म्। कामा॑य। पि॒कः ॥३९ ॥

Mantra without Swara
श्वित्रऽआदित्यानामुष्ट्रो घृणीवान्वार्ध्रीणसस्ते मत्या अरण्याय सृमरो रुरू रौद्रः क्वयिः कुटरुर्दात्यौहस्ते वाजिनाङ्कामाय पिकः ॥

श्वित्रः। आदित्यानाम्। उष्ट्रः। घृणीवान्। घृणिवानिति घृणिऽवान्। वाध्राaनसः। ते। मत्यै। अरण्याय। सृमरः। रुरुः। रौद्रः। क्वयिः। कुटरुः। दात्यौहः। ते। वाजिनाम्। कामाय। पिकः॥३९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(श्वित्रः) विचित्रः पशुविशेषः (आदित्यानाम्) कालावयवानाम् (उष्ट्रः) (घृणीवान्) तेजस्विपशुविशेषः (वार्ध्रीनसः) कण्ठे स्तनवान् महानजः (ते) (मत्यै) प्रज्ञायै (अरण्याय) (सृमरः) गवयः (रुरुः) मृगविशेषः (रौद्रः) रुद्रदेवताकः (क्वयिः) पक्षिविशेषः (कुटरुः) कुक्कुटः (दात्यौहः) काकः (ते) (वाजिनाम्) (कामाय) (पिकः) कोकिलः॥३९॥
Essence
ये आदित्यादिगुणाः पशुपक्षिणस्ते तत्तत्स्वभावाः सन्तीति वेद्यम्॥३९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! युष्माभिर्यः श्वित्रः स आदित्यानाम्। य उष्ट्रो घृणीवान् वार्ध्रीनसश्च ते मत्यै। यः सृमरः सोऽरण्याय। यो रुरुः स रौद्रः। ये क्वयिः कुटरुर्दात्यौहश्च ते वाजिनाम्। यः पिकः स कामाय च विज्ञेयाः॥३९॥