Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 33

40 Mantra
24/33
Devata- मित्रादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगतिगती Swara- निषादः
Mantra with Swara
सौ॒री ब॒लाका॑ शा॒र्गः सृ॑ज॒यः श॒याण्ड॑क॒स्ते मै॒त्राः सर॑स्वत्यै॒ शारिः॑ पुरुष॒वाक् श्वा॒विद् भांै॒मी शा॑र्दू॒लो वृकः॒ पृदा॑कु॒स्ते म॒न्यवे॒ सर॑स्वते॒ शुकः॑ पुरुष॒वाक्॥३३॥

सौ॒री। ब॒लाका॑। शा॒र्गः। सृ॒ज॒यः। श॒याण्ड॑क॒ इति॑ शय॒ऽआण्ड॑कः। ते। मै॒त्राः। सर॑स्वत्यै। शारिः॑। पु॒रु॒ष॒वागिति॑ पुरुष॒ऽवाक्। श्वा॒वित्। श्व॒विदिति॑ श्व॒ऽवित्। भौ॒मी। शा॒र्दू॒लः। वृकः॑। पृदा॑कुः। ते। म॒न्यवे॑। सर॑स्वते। शुकः॑। पु॒रु॒ष॒वागिति॑ पुरुष॒ऽवाक्॥३३ ॥

Mantra without Swara
सौरी बलाका शार्गः सृजयः शयाण्डकस्ते मैत्राः सरस्वत्यै शारिः पुरुषवाक्श्वाविद्भौमी शार्दूलो वृकः पृदाकुस्ते मन्यवे सरस्वते शुकः पुरुषवाक् ॥

सौरी। बलाका। शार्गः। सृजयः। शयाण्डक इति शयऽआण्डकः। ते। मैत्राः। सरस्वत्यै। शारिः। पुरुषवागिति पुरुषऽवाक्। श्वावित्। श्वविदिति श्वऽवित्। भौमी। शार्दूलः। वृकः। पृदाकुः। ते। मन्यवे। सरस्वते। शुकः। पुरुषवागिति पुरुषऽवाक्॥३३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सौरी) सूर्यो देवता यस्याः सा (बलाका) विशेषपक्षिणी (शार्गः) शार्ङ्गश्चातकः। अत्र छान्दसो वर्णलोप इति ङ्लोपः (सृजयः) पक्षिविशेषः (शयाण्डकः) पक्षिविशेषः (ते) (मैत्राः) प्राणदेवताकाः (सरस्वत्यै) नद्यै (शारिः) शुकी (पुरुषवाक्) शुकः (श्वावित्) सेधा (भौमी) पृथिवीदेवताका (शार्दूलः) व्याघ्रविशेषः (वृकः) चित्रकः (पृदाकुः) सर्प्पः (ते) (मन्यवे) क्रोधाय (सरस्वते) समुद्राय (शुकः) शुद्धिकृत् पक्षिविशेषः (पुरुषवाक्) पुरुषस्य वागिव वाग्यस्य सः॥३३॥
Essence
ये बलाकादयः पशुपक्षिणस्तेषां मध्यात् केचित् पालनीयाः केचित् ताडनीयाः सन्तीति वेद्यम्॥३३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! युष्माभिर्या सौरी सा बलाका ये शार्गः सृजयः शयाण्डकश्च ते मैत्राः शारिः पुरुषवाक् सरस्वत्यै श्वावित् भौमी शार्दूलो वृकः पृदाकुश्च ते मन्यवे शुकः पुरुषवाक् च सरस्वते विज्ञेयाः॥३३॥