Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 27

40 Mantra
24/27
Devata- वस्वादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- निचृद् बृहती Swara- मध्यमः
Mantra with Swara
वसु॑भ्य॒ऽऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॒न् विश्वे॑भ्यो दे॒वेभ्यः॑ पृष॒तान्त्सा॒ध्येभ्यः॑ कुलु॒ङ्गान्॥२७॥

वसु॑भ्य॒ इति वसु॑ऽभ्यः। ऋश्या॑न्। आ। ल॒भ॒ते॒। रु॒द्रेभ्यः॑। रुरू॑न्। आ॒दि॒त्येभ्यः॑। न्यङ्कू॑न्। विश्वे॑भ्यः। दे॒वेभ्यः॑। पृ॒ष॒तान्। सा॒ध्येभ्यः॑। कु॒लु॒ङ्गान् ॥२७ ॥

Mantra without Swara
वसुभ्यऽऋश्यानालभते रुद्रेभ्यः रुरूनादित्येभ्यो न्यङ्कून्विश्वेभ्यो देवेभ्यः पृषतान्त्साध्येभ्यः कुलुङ्गान् ॥

वसुभ्य इति वसुऽभ्यः। ऋश्यान्। आ। लभते। रुद्रेभ्यः। रुरून्। आदित्येभ्यः। न्यङ्कून्। विश्वेभ्यः। देवेभ्यः। पृषतान्। साध्येभ्यः। कुलुङ्गान्॥२७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वसुभ्यः) अग्न्यादिभ्यः (ऋश्यान्) मृगजातिविशेषान् पशून् (आ) (लभते) (रुद्रेभ्यः) प्राणादिभ्यः (रुरून्) मृगविशेषान् (आदित्येभ्यः) मासेभ्यः (न्यङ्कून्) पशुविशेषान् (विश्वेभ्यः) (देवेभ्यः) दिव्येभ्यः पदार्थेभ्यो विद्वद्भ्यो वा (पृषतान्) मृगविशेषान् (साध्येभ्यः) साधितुं योग्येभ्यः (कुलुङ्गान्) पशुविशेषान्॥२७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या मृगादीनां वेगगुणान् विदित्वोपकुर्युस्तेऽत्यन्तं सुखं लभेरन्॥२७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यथा पशुगुणविज्जनो वसुभ्य ऋश्यान् रुद्रेभ्यो रुरूनादित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त्साध्येभ्यः कुलुङ्गानालभते तथैतान् यूयमप्यालभध्वम्॥२७॥