Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 19

40 Mantra
24/19
Devata- वायुर्देवता Rishi- प्रजापतिर्ऋषिः Chhand- त्रिपाद्गायत्री Swara- षड्जः
Mantra with Swara
उ॒क्ताः स॑ञ्च॒राऽएताः॑ शुनासी॒रीयाः॑ श्वे॒ता वा॑य॒व्याः श्वे॒ताः सौ॒र्याः॥१९॥

उ॒क्ताः। स॒ञ्च॒रा इति॑ सम्ऽच॒राः। एताः॑। शु॒ना॒सी॒रीयाः॑। श्वे॒ताः। वा॒य॒व्याः᳖। श्वे॒ताः। सौ॒र्य्याः ॥१९ ॥

Mantra without Swara
उक्ताः सङ्चराऽएता शुनासीरीयाः श्वेता वायव्याः श्वेताः सौर्याः ॥

उक्ताः। सञ्चरा इति सम्ऽचराः। एताः। शुनासीरीयाः। श्वेताः। वायव्याः। श्वेताः। सौर्य्याः॥१९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उक्ताः) (सञ्चराः) (एताः) (शुनासीरीयाः) शुनासीरदेवताकाः कृषिसाधकाः (श्वेताः) श्वेतवर्णाः (वायव्याः) वायुवद्दिव्यगुणाः (श्वेताः) (सौर्य्याः) सूर्यवत्प्रकाशमानाः॥१९॥
Essence
या यस्य पशोर्देवता उक्ताः स तद्गुणो ग्राह्यः॥१९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यूयं य एताः शुनासीरीयाः सञ्चरा वायव्याः श्वेताः सौर्य्याः श्वेताश्चोक्तास्तान् कार्येषु सम्प्रयुङ्ध्वम्॥१९॥