Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 18

40 Mantra
24/18
Devata- पितरो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगतिजगती Swara- निषादः
Mantra with Swara
धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णासोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः॥१८॥

धू॒म्राः। ब॒भ्रुनी॑काशाः। ब॒भ्रुनि॑काशा॒ इति॑ ब॒भ्रुऽनि॑काशाः। पि॒तॄणाम्। सोम॑वता॒मिति॒ सोम॑ऽवताम्। ब॒भ्रवः॑। धू॒म्रनी॑काशाः। धू॒म्रनि॑काशा॒ इति॑ धू॒म्रऽनि॑काशाः। पि॒तॄणाम्। ब॒र्हि॒षदा॑म्। ब॒र्हि॒सदा॒मिति बर्हि॒ऽसदा॑म्। कृ॒ष्णाः। ब॒भ्रुनि॑काशा॒ इति॑ ब॒भ्रुऽनि॑काशाः। पि॒तॄणाम्। अ॒ग्नि॒ष्वा॒त्ताना॒म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। कृ॒ष्णाः। पृष॑न्तः। त्रै॒य॒म्ब॒काः ॥१८ ॥

Mantra without Swara
धूम्रा बभ्रुनीकाशाः पितऋृणाँ सोमवताम्बभ्रवो बभ्रुनीकाशाः पितऋृणाम्बर्हिषदाठङ्कृष्णा बभ्रुनीकाशाः पितऋृणामग्निष्वात्तानाङ्कृष्णाः पृषन्तस्त्रैयम्बकाः ॥

धूम्राः। बभ्रुनीकाशाः। बभ्रुनिकाशा इति बभ्रुऽनिकाशाः। पितॄणाम्। सोमवतामिति सोमऽवताम्। बभ्रवः। धूम्रनीकाशाः। धूम्रनिकाशा इति धूम्रऽनिकाशाः। पितॄणाम्। बर्हिषदाम्। बर्हिसदामिति बर्हिऽसदाम्। कृष्णाः। बभ्रुनिकाशा इति बभ्रुऽनिकाशाः। पितॄणाम्। अग्निष्वात्तानाम्। अग्निस्वात्तानामित्यग्निऽस्वात्तानाम्। कृष्णाः। पृषन्तः। त्रैयम्बकाः॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(धूम्राः) धूम्रवर्णाः (बभ्रुनीकाशाः) नकुलसदृशाः (पितॄणाम्) जनकजननीनाम् (सोमवताम्) सोमगुणयुक्तानाम् (बभ्रवः) पुष्टिकर्त्तारः (धूम्रनीकाशाः) (पितॄणाम्) (बर्हिषदाम्) ये बर्हिषि सभायां सीदन्ति ते (कृष्णाः) कृष्णवर्णाः (बभ्रुनीकाशाः) पालकसदृशाः (पितॄणाम्) (अग्निष्वात्तानाम्) गृहीताग्निविद्यानाम् (कृष्णाः) कृष्णवर्णाः (पृषन्तः) स्थूलाङ्गाः (त्रैयम्बकाः) त्रिष्वधिकारेष्वम्बकं लक्षणं येषान्ते॥१८॥
Essence
ये जनका विद्याजन्मदातारश्च सन्ति तेषां घृतादिभिर्गवादिदानैश्च यथायोग्यं सत्कारः कर्त्तव्यः॥१८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! युष्माभिः सोमवतां पितॄणां बभ्रुनीकाशाः धूम्रा बर्हिषदां पितॄणां कृष्णा धूम्रनीकाशाः बभ्रवोऽग्निष्वात्तानां पितॄणां बभ्रुनीकाशाः कृष्णाः पृषन्तस्त्रैयम्बकाश्च सन्तीति विज्ञेयाः॥१८॥