Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 15

40 Mantra
24/15
Devata- इन्द्रादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- विराडनुष्टुप् Swara- ऋषभः
Mantra with Swara
उ॒क्ताः स॑ञ्च॒राऽएता॑ऽऐन्द्रा॒ग्नाः कृ॒ष्णा वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः॥१५॥

उ॒क्ताः। सं॒च॒रा इति॑ सम्ऽच॒राः। एताः॑। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाः। वा॒रु॒णाः। पृश्न॑यः। मा॒रु॒ताः। का॒याः। तू॒प॒राः ॥१५ ॥

Mantra without Swara
उक्ताः सञ्चराऽएताऽऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास्तूपराः ॥

उक्ताः। संचरा इति सम्ऽचराः। एताः। ऐन्द्राग्नाः। कृष्णाः। वारुणाः। पृश्नयः। मारुताः। कापाः। तूपराः॥१५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उक्ताः) कथिताः (सञ्चराः) ये सम्यक् चरन्ति ते (एताः) (ऐन्द्राग्नाः) इन्द्राग्निदेवताकाः (कृष्णाः) कर्षकाः (वारुणाः) वरुणदेवताकाः (पृश्नयः) विचित्रचिह्नाः (मारुताः) (कायाः) प्रजापतिदेवताकाः (तूपराः) हिंसकाः॥१५॥
Essence
ये नानादेशसंचारिणः प्राणिनस्सन्ति तैर्मनुष्या यथायोग्यानुपकारान् गृह्णीयुः॥१५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! युष्माभिरेता उक्ताः सञ्चरा ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुतास्तूपराः कायाश्च सन्तीति बोध्यम्॥१५॥