Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 14

40 Mantra
24/14
Devata- अग्न्यादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगतिजगती Swara- निषादः
Mantra with Swara
कृ॒ष्णग्री॑वाऽआग्ने॒या ब॒भ्रवः॑ सौ॒म्याऽउ॑पध्व॒स्ताः सा॑वि॒त्रा वत्सत॒र्यः सारस्व॒त्यः श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीयाः॑॥१४॥

कृ॒ष्णग्री॑वा॒ इति॑ कृ॒ष्णऽग्री॑वाः। आ॒ग्ने॒याः। ब॒भ्रवः॑। सौ॒म्याः। उ॒प॒ध्व॒स्ताऽइत्यु॑पऽध्व॒स्ताः। सा॒वि॒त्राः। व॒त्स॒त॒र्यः᳖। सा॒र॒स्व॒त्यः᳖। श्या॒माः। पौ॒ष्णाः। पृश्न॑यः। मा॒रु॒ताः। ब॒हु॒रू॒पा इति॑ बहुऽरू॒पाः। वै॒श्व॒दे॒वा इति॑ वैश्वदे॒वाः। व॒शाः। द्या॒वा॒पृ॒थि॒वीयाः॑ ॥४ ॥

Mantra without Swara
कृष्णग्रीवाऽआग्नेया बभ्रवः सौम्याऽउपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः ॥

कृष्णग्रीवा इति कृष्णऽग्रीवाः। आग्नेयाः। बभ्रवः। सौम्याः। उपध्वस्ताऽइत्युपऽध्वस्ताः। सावित्राः। वत्सतर्यः। सारस्वत्यः। श्यामाः। पौष्णाः। पृश्नयः। मारुताः। बहुरूपा इति बहुऽरूपाः। वैश्वदेवा इति वैश्वदेवाः। वशाः। द्यावापृथिवीयाः॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
कृष्णग्रीवाः) कृष्णकण्ठाः (आग्नेयाः) अग्निदेवताकाः (बभ्रवः) सर्वस्य धारकाः पोषका वा (सौम्याः) सोमदेवताकाः (उपध्वस्ताः) उपाधः पतिताः (सावित्राः) सवितृदेवताकाः (वत्सतर्य्यः) ह्रस्वा वत्सा यासां ताः (सारस्वत्यः) वाग्देवताकाः (श्यामाः) श्यामवर्णाः (पौष्णाः) पुष्टिकरमेघदेवताकाः (पृश्नयः) प्रष्टव्याः (मारुताः) मनुष्यदेवताकाः (बहुरूपाः) बहूनि रूपाणि येषान्ते (वैश्वदेवाः) विश्वेदेवदेवताकाः (वशाः) देदीप्यमानाः (द्यावापृथिवीयाः) द्यावापृथिवीदेवताकाः॥१४॥
Essence
यथा शिल्पिनोऽग्न्यादिभ्यः पदार्थेभ्योऽनेकानि कार्याणि साध्नुवन्ति, तथा कृषीवलाः पशुभिर्बहूनि कार्याणि साध्नुयुः॥१४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! युष्माभिर्ये कृष्णग्रीवास्त आग्नेयाः। ये बभ्रवस्ते सौम्याः। य उपध्वस्तास्ते सावित्राः। या वत्सतर्यस्ताः सारस्वत्यः। ये श्यामास्ते पौष्णाः। ये पृश्नयस्ते मारुताः। ये बहुरूपास्ते वैश्वदेवाः। ये वशास्ते च द्यावापृथिवीया विज्ञेयाः॥४॥