Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 11

40 Mantra
24/11
Devata- वसन्तादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- स्वराड बृहती Swara- मध्यमः
Mantra with Swara
धू॒म्रान् व॑स॒न्तायाल॑भते श्वे॒तान् ग्री॒ष्माय॑ कृ॒ष्णान् व॒र्षाभ्यो॑ऽरु॒णाञ्छ॒रदे॒ पृष॑तो हेम॒न्ताय॑ पि॒शङ्गा॒ञ्छिशि॑राय॥११॥

धू॒म्रान्। व॒स॒न्ताय॑। आ। ल॒भ॒ते॒। श्वे॒तान्। ग्री॒ष्माय॑। कृ॒ष्णान्। व॒र्षाभ्यः॑। अ॒रु॒णान्। श॒रदे॑। पृष॑तः। हे॒म॒न्ताय॑। पिशङ्गा॑न्। शिशि॑राय ॥११ ॥

Mantra without Swara
धूम्रान्वसन्तायालभते श्वेतान्ग्रीष्माय कृष्णान्वर्षाभ्योरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्गाञ्छिशिराय ॥

धूम्रान्। वसन्ताय। आ। लभते। श्वेतान्। ग्रीष्माय। कृष्णान्। वर्षाभ्यः। अरुणान्। शरदे। पृषतः। हेमन्ताय। पिशङ्गान्। शिशिराय॥११॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(धूम्रान्) धूम्रवर्णान् पदार्थान् (वसन्ताय) वसन्तर्त्तौ सुखाय (आ) समन्तात् (लभते) प्राप्नोति (श्वेतान्) श्वेतवर्णान् (ग्रीष्माय) ग्रीष्मर्त्तौ सुखाय (कृष्णान्) कृष्णवर्णान् कृषिसाधकान् वा (वर्षाभ्यः) वर्षर्त्तौ कार्यसाधनाय (अरुणान्) आरक्तान् (शरदे) शरदृतौ सुखाय (पृषतः) स्थूलान् (हेमन्ताय) हेमन्तर्त्तौ कार्यसाधनाय (पिशङ्गान्) रक्तपीतवर्णान् (शिशिराय) शिशिरर्त्तौ व्यवहारसाधनाय॥११॥
Essence
मनुष्यैर्यस्मिन्नृतौ ये पदार्थाः संचयनीयाः सेवनीयाश्च स्युस्तान् संचित्य संसेव्याऽरोगा भूत्वा धर्मार्थकाममोक्षसाधनान्यनुष्ठातव्यानि॥११॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यो मनुष्यो वसन्ताय धूम्रान् ग्रीष्माय श्वेतान् वर्षाभ्यः कृष्णान् शरदेऽरुणान् हेमन्ताय पृषतः शिशिराय पिशङ्गानालभते, स सततं सुखी भवति॥११॥