Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 24 / Mantra 10

40 Mantra
24/10
Devata- अन्तरिक्षादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- स्वराड् गायत्री Swara- षड्जः
Mantra with Swara
कृ॒ष्णा भाै॒मा धू॒म्राऽआ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः॥१०॥

कृ॒ष्णाः। भौ॒माः। धू॒म्राः। आ॒न्त॒रि॒क्षाः। बृ॒हन्तः॑। दि॒व्याः। श॒बलाः॑। वै॒द्यु॒ताः। सि॒ध्माः। ता॒र॒काः ॥१० ॥

Mantra without Swara
कृष्णा भौमा धूम्रा आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास्तारकाः ॥

कृष्णाः। भौमाः। धूम्राः। आन्तरिक्षाः। बृहन्तः। दिव्याः। शबलाः। वैद्युताः। सिध्माः। तारकाः॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(कृष्णाः) कृष्णवर्णाः विलेखननिमित्ता वा (भौमाः) भूमिदेवताकाः (धूम्राः) धूम्रवर्णाः (आन्तरिक्षाः) अन्तरिक्षदेवताकाः (बृहन्तः) वर्धकाः (दिव्याः) दिव्यगुणकर्मस्वभावाः (शबलाः) किंचिच्छ्वेताः (वैद्युताः) विद्युद्देवताकाः (सिध्माः) मङ्गलकारिणः (तारकाः) दुःखस्य पारे कारिणः॥१०॥
Essence
यदि मनुष्याः कर्षणादिकार्यसाधकान् पश्वादिपदार्थन् भूम्यादिषु संयोजयेयुस्तर्हि ते मङ्गलमाप्नुयुः॥१०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! युष्माभिर्ये कृष्णास्ते भौमाः। ये धूम्रास्त आन्तरिक्षाः। ये दिव्या बृहन्तः शबलास्ते वैद्युताः। ये सिध्मास्ते च तारका विज्ञेयाः॥१०॥