Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 8

65 Mantra
23/8
Devata- वाय्वादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- निचृदत्यष्टिः Swara- गान्धारः
Mantra with Swara
व॑सवस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सादि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा। भूर्भुवः॒ स्वर्लाजी३ञ्छाची३न्यव्ये॒ गव्य॑ऽए॒तदन्न॑मत्त देवाऽए॒तदन्न॑मद्धि प्रजापते॥८॥

वस॑वः। त्वा॒। अ॒ञ्ज॒न्तु॒। गा॒य॒त्रेण॑। छन्द॑सा। रु॒द्राः। त्वा॒। अ॒ञ्ज॒न्तु॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नति॒ त्रैऽस्तु॑भेन। छन्द॑सा। आ॒दि॒त्याः। त्वा॒। अ॒ञ्ज॒न्तु॒। जाग॑तेन। छन्द॑सा। भूः। भुवः॑। स्वः॑। लाजी३न्। शाची३न्। यव्ये॑। गव्ये॑। ए॒तत्। अन्न॑म्। अ॒त्त॒। दे॒वाः॒। ए॒तत्। अन्न॑म्। अ॒द्धि॒। प्र॒जा॒प॒त॒ इति॑ प्रजाऽपते ॥८ ॥

Mantra without Swara
वसवस्त्वाञ्जन्तु गायत्रेण च्छन्दसा रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन च्छन्दसाऽआदित्यास्त्वाञ्जन्तु जागतेन च्छन्दसा । भूर्भुवः स्वर्लाजी३ञ्छाची३न्यव्ये गव्यऽएतदन्नमत्त देवाऽएतदन्नमद्धि प्रजापते ॥

वसवः। त्वा। अञ्जन्तु। गायत्रेण। छन्दसा। रुद्राः। त्वा। अञ्जन्तु। त्रैष्टुभेन। त्रैस्तुभेनति त्रैऽस्तुभेन। छन्दसा। आदित्याः। त्वा। अञ्जन्तु। जागतेन। छन्दसा। भूः। भुवः। स्वः। लाजी३न्। शाची३न्। यव्ये। गव्ये। एतत्। अन्नम्। अत्त। देवाः। एतत्। अन्नम्। अद्धि। प्रजापत इति प्रजाऽपते॥८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वसवः) प्रथमकल्पा विद्वांसः (त्वा) त्वाम् (अञ्जन्तु) कामयन्ताम् (गायत्रेण) गायत्रीछन्दोवाच्येन (छन्दसा) अर्थेन (रुद्राः) मध्यमकल्पा विद्वांसः (त्वा) त्वाम् (अञ्जन्तु) (त्रैष्टुभेन) त्रिष्टुप्प्रकाशितेनाऽर्थेन (छन्दसा) (आदित्याः) उत्तमा विद्वांसः (त्वा) (अञ्जन्तु) (जागतेन) जगतीछन्दःप्रकाशितेनाऽर्थेन (छन्दसा) स्वच्छन्देन (भूः) इमं लोकम् (भुवः) अन्तरिक्षस्थान् (स्वः) प्रकाशस्थांल्लोकान् (लाजीन्) स्वस्वकक्षायां चलितान् (शाचीन्) व्यक्तान् (यव्ये) यवानां भवने क्षेत्रे जातम् (गव्ये) गोर्विकारे (एतत्) (अन्नम्) (अत्त) भक्षयत (देवाः) विद्वांसः (एतत्) (अन्नम्) (अद्धि) भुङ्क्ष्व (प्रजापते) प्रजारक्षक॥८॥
Essence
ये विद्वांसः साङ्गोपाङ्गान् वेदान् मनुष्यानध्यापयन्ति, ते धन्यवादार्हा भवन्ति॥८॥
Subject
पुनर्विद्वांसः किं कुर्वन्तीत्याह॥
Anvaya
हे प्रजापते! वसवो गायत्रेण छन्दसा यं त्वाऽञ्जन्तु रुद्रास्त्रैष्टुभेन छन्दसा यं त्वाऽञ्जन्त्वादित्या जागतेन छन्दसा यं त्वाऽञ्जन्तु स त्वमेतदन्नमद्धि। हे देवाः! यूयं यव्ये गव्य एतदन्नमत्त लाजीन् शाचीन् भूर्भुवः स्वर्लोकान् प्राप्नुत च॥८॥