Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 61

65 Mantra
23/61
Devata- प्रष्टा देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑।पृ॒च्छामि॑ त्वा॒ वृष्णो॒ऽअश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म॥६१॥

पृ॒च्छामि॑। त्वा॒। पर॑म्। अन्त॑म्। पृ॒थि॒व्याः। पृ॒च्छामि॑। यत्र॑। भुव॑नस्य। नाभिः॑। पृ॒च्छामि॑। त्वा॒। वृष्णः॑। अश्व॑स्य। रेतः॑। पृ॒च्छामि॑। वा॒चः। प॒र॒मम्। व्यो॒मेति॒ विऽओ॑म ॥६१ ॥

Mantra without Swara
पृच्छामि त्वा परमन्तम्पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णोऽअश्वस्य रेतः पृच्छामि वाचः परमँव्योम ॥

पृच्छामि। त्वा। परम्। अन्तम्। पृथिव्याः। पृच्छामि। यत्र। भुवनस्य। नाभिः। पृच्छामि। त्वा। वृष्णः। अश्वस्य। रेतः। पृच्छामि। वाचः। परमम्। व्योमेति विऽओम॥६१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पृच्छामि) (त्वा) त्वाम् (परम्) परभागस्थम् (अन्तम्) सीमानम् (पृथिव्याः) (पृच्छामि) (यत्र) (भुवनस्य) (नाभिः) मध्याकर्षणेन बन्धकम् (पृच्छामि) (त्वा) त्वाम् (वृष्णः) सेचकस्य (अश्वस्य) बलवतः (रेतः) वीर्य्यम् (पृच्छामि) (वाचः) वाण्याः (परमम्) प्रकृष्टम् (व्योम) आकाशरूपं स्थानम्॥६१॥
Essence
पृथिव्याः सीमा लोकस्याकर्षणेन बन्धनं, बलिनो जनस्य पराक्रमो वाक्पारगश्च कोऽस्तीत्येतेषां प्रश्नानामुत्तराणि परस्मिन् मन्त्रे वेदितव्यानि॥६१॥
Subject
पुनः प्रश्नानाह॥
Anvaya
हे विद्वन्नहं त्वा त्वां पृथिव्या अन्तं परं पृच्छामि यत्र भुवनस्य नाभिरस्ति, तं पृच्छामि यद् वृष्णोऽश्वस्य रेतोऽस्ति, तत्पृच्छामि वाचः परमं व्योम, त्वा पृच्छामीति वदोत्तराणि॥६१॥