Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 53

65 Mantra
23/53
Devata- प्रष्टा देवता Rishi- प्रजापतिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
का स्वि॑दासीत् पू॒र्वचि॑त्तिः॒ कि॑स्वि॑दासीद् बृ॒हद्वयः॑।का स्वि॑दासीत् पिलिप्पि॒ला का स्वि॑दासीत् पिशङ्गि॒ला॥५३॥

का। स्वि॒त्। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। किम्। स्वि॒त्। आ॒सी॒त्। बृ॒हत्। वयः॑। का। स्वि॒त्। आ॒सी॒त्। पि॒लि॒प्पि॒ला। का। स्वि॒त्। आ॒सी॒त्। पि॒श॒ङ्गि॒ला ॥५३ ॥

Mantra without Swara
का स्विदासीत्पूर्वचित्तिः किँ स्विदासीद्बृहद्वयः । का स्विदासीत्पिलिप्पिला का स्विदासीत्पिशङ्गिला ॥

का। स्वित्। आसीत्। पूर्वचित्तिरिति पूर्वऽचित्तिः। किम्। स्वित्। आसीत्। बृहत्। वयः। का। स्वित्। आसीत्। पिलिप्पिला। का। स्वित्। आसीत्। पिशङ्गिला॥५३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(का) (स्वित्) (आसीत्) (पूर्वचित्तिः) पूर्वस्मिन्ननादौ सञ्चयनाख्या (किम्) (स्वित्) (आसीत्) (बृहत्) महत् (वयः) प्रजननात्मकम् (का) (स्वित्) (आसीत्) (पिलिप्पिला) आर्द्रीभूता (का) (स्वित्) (आसीत्) (पिशङ्गिला) अवयवान्तःकर्त्री॥५३॥
Essence
अत्र चत्वारः प्रश्नास्तेषां समाधानानि परस्मिन् मन्त्रे द्रष्टव्यानि॥५३॥
Subject
पुनः प्रश्नानाह॥
Anvaya
हे विद्वन्नत्र जगति का स्वित् पूर्वचित्तिरासीत्? किं स्विद् बृहद्वय आसीत्? का स्वित् पिलिप्पिला आसीत्? कास्वित् पिशाङ्गिला आसीद्? इति भवन्तं पृच्छामि॥५३॥