Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 52

65 Mantra
23/52
Devata- परमेश्वरो देवता Rishi- प्रजापतिर्ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प॒ञ्चस्व॒न्तः पुरु॑ष॒ऽआवि॑वेश॒ तान्य॒न्तः पुरु॑षे॒ऽअर्पि॑तानि।ए॒तत्त्वात्र॑ प्रतिमन्वा॒नोऽअ॑स्मि॒ न मा॒यया॑ भव॒स्युत्त॑रो॒ मत्॥५२॥

प॒ञ्चस्विति॑। प॒ञ्चऽसु॑। अ॒न्तरित्य॒न्तः। पुरु॑षः। आ। वि॒वे॒श॒। तानि॑। अ॒न्तरित्य॒न्तः। पुरु॑षे। अर्पि॑तानि। ए॒तत्। त्वा॒। अत्र॑। प्र॒ति॒म॒न्वा॒न इति॑ प्रतिऽमन्वा॒नः। अ॒स्मि॒। न। मा॒यया॑। भ॒व॒सि॒। उत्त॑र॒ इत्युत्ऽत॑रः। मत्॥५२ ॥

Mantra without Swara
पञ्चस्वन्तः पुरुषऽआविवेश तान्यन्तः पुरुषेऽअर्पितानि । एतत्त्वात्र प्रतिमन्वानोऽअस्मि न मायया भवस्युत्तरो मत् ॥

पञ्चस्विति। पञ्चऽसु। अन्तरित्यन्तः। पुरुषः। आ। विवेश। तानि। अन्तरित्यन्तः। पुरुषे। अर्पितानि। एतत्। त्वा। अत्र। प्रतिमन्वान इति प्रतिऽमन्वानः। अस्मि। न। मायया। भवसि। उत्तर इत्युत्ऽतरः। मत्॥५२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पञ्चसु) भूतेषु तन्मात्रासु या (अन्तः) (पुरुषः) पूर्णः परमात्मा (आ) (विवेश) स्वव्याप्त्याऽऽविष्टोऽस्ति (तानि) भूतानि तन्मात्राणि वा (अन्तः) मध्ये (पुरुषे) पूर्णे परमात्मनि (अर्पितानि) स्थापितानि (एतत्) (त्वा) त्वाम् (अत्र) (प्रतिमन्वानः) प्रत्यक्षेण विजानन् (अस्मि) (न) (मायया) प्रज्ञया। मायेति प्रज्ञानामसु पठितम्॥ (निघं॰३।२) (भवसि) (उत्तरः) उत्कृष्टं तारयति समादधाति सः (मत्) मम सकाशात्॥५२॥
Essence
परमेश्वर उपदिशति - हे मनुष्याः! मदुत्तरः कोऽपि नास्ति। अहमेव सर्वेषामाधारः सर्वमभिव्याप्य धरामि। मयि व्याप्ते सर्वाणि वस्तूनि स्वस्वनियमे स्थितानि सन्ति। हे सर्वोत्तमा योगिनो विद्वांसो! भवन्तो ममेदं विज्ञानं विज्ञापयत॥५२॥
Subject
पूर्वमन्त्रोक्तप्रश्नयोरुत्तरमाह॥
Anvaya
हे जिज्ञासो! पञ्चस्वन्तः पुरुष आ विवेश तानि पुरुषेऽन्तरर्पितानि। एतदत्र त्वा प्रतिमन्वानोऽहं समाधाताऽस्मि। यदि मायया युक्तस्त्वं भवसि तर्हि मदुत्तरः समाधता कश्चिन्नास्तीति विजानीहि॥५२॥