Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 51

65 Mantra
23/51
Devata- पुरुषेश्वरो देवता Rishi- प्रजापतिर्ऋषिः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
केष्व॒न्तः पुरु॑ष॒ऽआ वि॑वेश॒ कान्य॒न्तः पुरु॑षे॒ऽअर्पि॑तानि।ए॒तद् ब्र॑ह्म॒न्नुप॑ वल्हामसि त्वा॒ किस्वि॑न्नः॒ प्रति॑ वोचा॒स्यत्र॑॥५१॥

केषु॑। अ॒न्तरित्य॒न्तः। पुरु॑षः। आ। वि॒वे॒श॒। कानि॑। अ॒न्तरित्य॒न्तः। पुरु॑षे। अर्पि॑तानि। ए॒तत्। ब्र॒ह्म॒न्। उप॑। व॒ल्हा॒म॒सि॒। त्वा॒। किम्। स्वि॒त्। नः॒। प्रति॑। वो॒चा॒सि॒। अत्र॑ ॥५१ ॥

Mantra without Swara
केष्वन्तः पुरुषऽआ विवेश कान्यन्तः पुरुषेऽअर्पितानि । एतद्ब्रह्मन्नुपवल्हामसि त्वा किँ स्विन्नः प्रति वोचास्यत्र ॥

केषु। अन्तरित्यन्तः। पुरुषः। आ। विवेश। कानि। अन्तरित्यन्तः। पुरुषे। अर्पितानि। एतत्। ब्रह्मन्। उप। वल्हामसि। त्वा। किम्। स्वित्। नः। प्रति। वोचासि। अत्र॥५१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(केषु) (अन्तः) मध्ये (पुरुषः) सर्वत्र पूर्णः (आ) (विवेश) प्रविष्टोऽस्ति (कानि) (अन्तः) मध्ये (पुरुषे) (अर्पितानि) स्थापितानि (एतत्) (ब्रह्मन्) ब्रह्मविद्विद्वन् (उप) (वल्हामसि) प्रधाना भवामः (त्वा) त्वाम् (किम्) (स्वित्) (नः) अस्मान् (प्रति) (वोचासि) उच्याः। अत्र लेटि मध्यमैकवचने ‘वा छन्दसि सर्वे विधयो भवन्ती’त्युमागमः (अत्र)॥५१॥
Essence
चतुर्वेदविद्विद्वानितरैर्जनैरेवं प्रष्टव्याः। हे वेदविद्विद्वन्! पूर्णः परमेश्वरः केषु प्रविष्टोऽस्ति? कानि च तदन्तर्गतानि सन्ति? एतत्पृष्टो भवान् याथार्थ्येन ब्रवीतु येन वयं प्रधानपुरुषा भवेम॥५१॥
Subject
अथेश्वरविषये प्रश्नावाह॥
Anvaya
हे ब्रह्मन्! केषु पुरुषोऽन्तराविवेश कानि पुरुषेऽन्तरर्पितानि येन वयमुपवल्हामसि। एतत्त्वा त्वां पृच्छामस्तत् किंस्विदस्त्यत्र नः प्रतिवोचासि॥५१॥