Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 50

65 Mantra
23/50
Devata- ईश्वरो देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अपि॒ तेषु॑ त्रि॒षु प॒देष्व॑स्मि॒ येषु॒ विश्वं॒ भुव॑नमा वि॒वेश॑।स॒द्यः पर्ये॑मि पृथि॒वीमु॒त द्यामेके॒नाङ्गे॑न दि॒वोऽअ॒स्य पृ॒ष्ठम्॥५०॥

अपि॑। तेषु॑। त्रि॒षु। प॒देषु॑। अ॒स्मि॒। येषु॑। विश्व॑म्। भुव॑नम्। आ॒वि॒वेशेत्या॑ऽवि॒वेश॑। स॒द्यः। परि॑। ए॒मि॒। पृ॒थि॒वीम्। उ॒त। द्याम्। एके॑न। अङ्गे॑न। दि॒वः। अ॒स्य। पृ॒ष्ठम् ॥५० ॥

Mantra without Swara
अपि तेषु त्रिषु पदेष्वस्मि येषु विश्वम्भुवनमाविवेश । सद्यः पर्येमि पृथिवीमुत द्यामेकेनाङ्गेन दिवोऽअस्य पृष्ठम् ॥

अपि। तेषु। त्रिषु। पदेषु। अस्मि। येषु। विश्वम्। भुवनम्। आविवेशेत्याऽविवेश। सद्यः। परि। एमि। पृथिवीम्। उत। द्याम्। एकेन। अङ्गेन। दिवः। अस्य। पृष्ठम्॥५०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अपि) (तेषु) पूर्वोक्तेषु (त्रिषु) (पदेषु) प्राप्तुं योग्येषु नामस्थानजन्माख्येषु (अस्मि) (येषु) (विश्वम्) अखिलम् (भुवनम्) जगत् (आविवेश) समन्ताद् विष्टमस्ति (सद्यः) (परि) सर्वतः (एमि) प्राप्तोऽस्मि (पृथिवीम्) भूमिमन्तरिक्षं वा (उत) (द्याम्) सर्वप्रकाशम् (एकेन) (अङ्गेन) कमनीयेन (दिवः) प्रकाशमानस्य सूर्य्यादिलोकस्य (अस्य) (पृष्ठम्) आधारम्॥५०॥
Essence
यथा सर्वाञ्जीवान् प्रतीश्वर उपदिशति - अहं कार्य्यकारणात्मके जगति व्याप्तोऽस्मि, मया विनैकः परमाणुरप्यव्याप्तो नास्ति। सोऽहं यत्र जगन्नास्ति तत्राप्यनन्तस्वरूपेण पूर्णोऽस्मि। यदिदं जगदतिविस्तीर्णं भवन्तः पश्यन्ति तदिदं मत्सन्निधावेकाणुमात्रमपि नास्तीति, तथैव विद्वान् विज्ञापयेत्॥५०॥
Subject
अथैतेषामुत्तराण्याह॥
Anvaya
हे मनुष्याः! यो जगत्स्रष्टेश्वरोऽहं येषु त्रिषु पदेषु विश्वं भुवनमाविवेश तेष्वप्यहं व्याप्तोऽस्मि। अस्य दिवः पृष्ठं पृथिवीमुत द्याञ्चैकेनाङ्गेन सद्यः पर्य्येमि तं मां सर्वे यूयमुपाध्वम्॥५०॥