Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 49

65 Mantra
23/49
Devata- प्रष्टृसमाधातारौ देवते Rishi- प्रजापतिर्ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
पृ॒च्छामि॑ त्वा चि॒तये॑ देवसख॒ यदि॒ त्वमत्र॒ मन॑सा ज॒गन्थ॑।येषु॒ विष्णु॑स्त्रि॒षु प॒देष्वेष्ट॒स्तेषु॒ विश्वं॒ भुव॑न॒मावि॑वेशाँ३ऽ॥४९॥

पृ॒च्छामि॑। त्वा॒। चि॒तये॑। दे॒व॒स॒खेति॑ देवऽसख। यदि॑। त्वम्। अत्र॑। मन॑सा। ज॒गन्थ॑। येषु॑। विष्णुः॑। त्रि॒षु। प॒देषु॑। आइ॑ष्ट॒ इत्याऽइ॑ष्टः। तेषु॑। विश्व॑म्। भुव॑नम्। आ। वि॒वे॒श॒ ॥४९ ॥

Mantra without Swara
पृच्छामि त्वा चितये देवसख यदि त्वमत्र मनसा जगन्थ । येषु विष्णुस्त्रिषु पदेष्वेष्टस्तेषु विश्वम्भुवनमाविवेशा३ ॥

पृच्छामि। त्वा। चितये। देवसखेति देवऽसख। यदि। त्वम्। अत्र। मनसा। जगन्थ। येषु। विष्णुः। त्रिषु। पदेषु। आइष्ट इत्याऽइष्टः। तेषु। विश्वम्। भुवनम्। आ। विवेश॥४९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पृच्छामि) (त्वा) त्वाम् (चितये) चेतनाय (देवसख) देवानां विदुषां सुहृद् (यदि) (त्वम्) (अत्र) (मनसा) अन्तःकरणेन (जगन्थ) (येषु) (विष्णुः) व्यापकेश्वरः (त्रिषु) त्रिविधेषु (पदेषु) नामस्थानजन्माख्येषु (एष्टः) (तेषु) (विश्वम्) (भुवनम्) (आ) (विवेश) आविष्टो व्याप्तोऽस्ति॥४९॥
Essence
हे विद्वन्! यश्चेतनः सर्वव्यापी पूजितुं योग्यः परमेश्वरोऽस्ति, तं मह्यमुपदिश॥४९॥
Subject
पुनः प्रश्नानाह॥
Anvaya
हे देवसख! यदि त्वमत्र मनसा जगन्थ तर्हि त्वा चितये पृच्छामि, यो विष्णुर्येषु त्रिषु पदेष्वेष्टोऽस्ति तेषु व्याप्तः सन् विश्वं भुवनमाविवेश तं च पृच्छामि॥४९॥