Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 48

65 Mantra
23/48
Devata- ब्रह्मादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
ब्रह्म॒ सूर्य॑समं॒ ज्योति॒र्द्यौः स॑मु॒द्रस॑म॒ꣳसरः॑।इन्द्रः॑ पृथि॒व्यै वर्षी॑या॒न् गोस्तु मात्रा॒ न वि॑द्यते॥४८॥

ब्रह्म॑। सूर्य्य॑सम॒मिति॒ सूर्य्य॑ऽसमम्। ज्योतिः॑। द्यौः। स॒मु॒द्रस॑म॒मिति॑ समु॒द्रऽस॑मम्। सरः॑। इन्द्रः॑। पृ॒थि॒व्यै। वर्षी॑यान्। गोः। तु। मात्रा॑। न। वि॒द्य॒ते॒ ॥४८ ॥

Mantra without Swara
ब्रह्म सूर्यसमञ्ज्योतिर्द्याः समुद्रसमँ सरः । इन्द्रः पृथिव्यै वर्षीयान्गोस्तु मात्रा न विद्यते ॥

ब्रह्म। सूर्य्यसममिति सूर्य्यऽसमम्। ज्योतिः। द्यौः। समुद्रसममिति समुद्रऽसमम्। सरः। इन्द्रः। पृथिव्यै। वर्षीयान्। गोः। तु। मात्रा। न। विद्यते॥४८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ब्रह्म) बृहत् सर्वेभ्यो महदनन्तम् (सूर्य्यसमम्) (ज्योतिः) प्रकाशकम् (द्यौः) अन्तरिक्षम् (समुद्रसमम्) समुद्रेण समानः (सरः) (इन्द्रः) सूर्य्यः (पृथिव्यै) पृथिव्याः (वर्षीयान्) अतिशयेन वृद्धो महान् (गोः) वाचः (तु) (मात्रा) (न) (विद्यते) भवति॥४८॥
Essence
न किंचित् स्वप्रकाशेन ब्रह्मणा समं ज्योतिर्विद्यते सूर्य्यप्रकाशेन युक्तेन मेघेन तुल्यो जलाशयः सूर्य्येण तुल्यो लोकेशो वाचा तुल्यं व्यवहारसाधकं किंचिदपि वस्तु न भवतीति सर्वे निश्चिन्वन्तु॥४८॥
Subject
अथैतेषामुत्तराण्याह॥
Anvaya
हे जिज्ञासो! त्वं सूर्य्यसमं ज्योतिर्ब्रह्म समुद्रसमं सरो द्यौ पृथिव्यै वर्षीयानिन्द्रो गोस्तु मात्रा न विद्यत इति विजानीहि॥४८॥