Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 47

65 Mantra
23/47
Devata- जिज्ञासुर्देवता Rishi- प्रजापतिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
किꣳस्वि॒त् सूर्य॑समं॒ ज्योतिः॒ किꣳस॑मु॒द्रस॑म॒ꣳसरः॑।किꣳस्वि॑त् पृथि॒व्यै वर्षी॑यः॒ कस्य॒ मात्रा॒ न वि॑द्यते॥४७॥

किम्। स्वि॒त्। सूर्य॑सम॒मिति॒ सूर्य॑ऽसमम्। ज्योतिः॑। किम्। स॒मु॒द्रस॑म॒मिति॑ समु॒द्रऽस॑मम्। सरः॑। किम्। स्वि॒त्। पृ॒थि॒व्यै। वर्षी॑यः। कस्य॑। मात्रा॑। न। वि॒द्य॒ते॒ ॥४७ ॥

Mantra without Swara
किँ स्वित्सूर्यसमञ्ज्योतिः किँ समुद्रसमँ सरः । किँ स्वित्पृथिव्यै वर्षीयः कस्य मात्रा न विद्यते ॥

किम्। स्वित्। सूर्यसममिति सूर्यऽसमम्। ज्योतिः। किम्। समुद्रसममिति समुद्रऽसमम्। सरः। किम्। स्वित्। पृथिव्यै। वर्षीयः। कस्य। मात्रा। न। विद्यते॥४७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(किम्) (स्वित्) (सूर्यसमम्) सूर्येण तुल्यम् (ज्योतिः) प्रकाशस्वरूपम् (किम्) (समुद्रसमम्) (सरः) सरन्ति जलानि यस्मिन् तडागे तत् (किम्) (स्वित्) (पृथिव्यै) पृथिव्याः। अत्र पञ्चम्यर्थे चतुर्थी (वर्षीयः) वृद्धम् (कस्य) (मात्रा) मीयते यया सा (न) (विद्यते) भवति॥४७॥
Essence
आदित्यवत्तेजस्वि समुद्रवदुदधि भूमेरधिकं च किं कस्य च परिमाणं नास्तीत्येतेषां प्रश्नानामुत्तराणि परस्मिन् मन्त्रे वेदितव्यानि॥४७॥
Subject
पुनः प्रश्नानाह॥
Anvaya
हे विद्वन्! किं स्वित् सूर्यसमं ज्योतिः? किं समुद्रसमं सरः? किं स्वित् पृथिव्यै वर्षीयः? कस्य मात्रा न विद्यत? इति॥४७॥