Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 34

65 Mantra
23/34
Devata- प्रजा देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः। विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा॥३४॥

द्विप॑दा॒ इति॒ द्विऽप॑दाः। याः। चतु॑ष्पदा॒ इति॒ चतुः॑ऽपदाः। त्रिप॑दा॒ इति॒ त्रिऽप॑दाः। याः। च॒। षट्प॑दा॒ इति॒ षट्ऽप॑दाः। विच्छ॑न्दा॒ इति॒ विऽच्छ॑न्दाः। याः। च॒। सच्छ॑न्दा॒ऽइति॒ सच्छ॑न्दाः। सू॒चीभिः॑। श॒म्य॒न्तु॒। त्वा॒ ॥३४ ॥

Mantra without Swara
द्विपदा याश्चतुष्पदास्त्रिपदा याश्च षट्पदाः । विच्छन्दा याश्च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥

द्विपदा इति द्विऽपदाः। याः। चतुष्पदा इति चतुःऽपदाः। त्रिपदा इति त्रिऽपदाः। याः। च। षट्पदा इति षट्ऽपदाः। विच्छन्दा इति विऽच्छन्दाः। याः। च। सच्छन्दाऽइति सच्छन्दाः। सूचीभिः। शम्यन्तु। त्वा॥३४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(द्विपदाः) द्वे पदे यासु ताः (याः) (चतुष्पदाः) चत्वारि पदानि यासु ताः (त्रिपदाः) त्रीणि पदानि यासु ताः (याः) (च) (षट्पदाः) षट् पदानि यासु ताः (विच्छन्दाः) विविधानि छन्दांस्यूर्जनानि यासु ताः (याः) (च) (सच्छन्दाः) समानानि छन्दांसि यासु ताः (सूचीभिः) अनुसंधानसाधिकाभिः क्रियाभिः (शम्यन्तु) (त्वा)॥३४॥
Essence
ये विद्वांसो मनुष्यान् ब्रह्मचर्यनियमेन वीर्यवृद्धिं प्रापय्यारोगान् जितेन्द्रियान् विषयासक्तिविरहान् कृत्वा धर्म्ये व्यवहारे चालयन्ति, ते सर्वेषां पूज्या भवन्ति॥३४॥
Subject
पुनर्विद्वांसः किं कुर्युरित्याह॥
Anvaya
ये विद्वांसः सूचीभिर्या द्विपदा याश्चतुष्पदा यास्त्रिपदा याश्च षट्पदा या विच्छन्दा याश्च सच्छन्दास्त्वा ग्राहयित्वा शम्यन्तु शमं प्रापयन्तु तान् नित्यं सेवस्व॥३४॥