Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 30

65 Mantra
23/30
Devata- राजा देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं प॒शु मन्य॑ते।शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति॥३०॥शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति॥३०॥

यत्। ह॒रि॒णः। यव॑म्। अत्ति॑। न। पु॒ष्टम्। प॒शु। मन्य॑ते। शू॒द्रा। यत्। अर्य्य॑जा॒रेत्यर्य्य॑ऽजारा। न। पोषा॑य। ध॒ना॒य॒ति॒ ॥३० ॥

Mantra without Swara
यद्धरिणो यवमत्ति न पुष्टम्पशु मन्यते । शूद्रा यदर्यजारा न पोषाय धनायति ॥

यत्। हरिणः। यवम्। अत्ति। न। पुष्टम्। पशु। मन्यते। शूद्रा। यत्। अर्य्यजारेत्यर्य्यऽजारा। न। पोषाय। धनायति॥३०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यत्) यः (हरिणः) पशु (यवम्) (अत्ति) (न) (पुष्टम्) (पशुः) पशुम् (मन्यते) (शूद्रा) शूद्रस्य स्त्री (यत्) या (अर्य्यजारा) अर्य्यौ स्वामिवैश्यौ जारयति वयसा हन्ति सा (न) निषेधे (पोषाय) पुष्टये (धनायति) आत्मनो धनमिच्छति॥३०॥
Essence
यो राजा पशुवद् व्यभिचारे वर्त्तमानः प्रजापुष्टिं न करोति, स धनाढ्या शूद्रा जारा दासीव सद्यो रोगी भूत्वा पुष्टिं विनाश्य धनहीनतया दरिद्रः सन् म्रियते तस्माद् राजा कदाचिदीर्ष्यां व्यभिचारं च नाचरेत्॥३०॥
Subject
पुनः स राजा कथमाचरेदित्याह॥
Anvaya
यत् यो राजा हरिणो यवमत्तीव पुष्टं पशु न मन्यते, स यदर्य्यजारा शूद्रेव पोषाय न धनायति॥३०॥