Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 28

65 Mantra
23/28
Devata- प्रजापतिर्देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
यद॑स्याऽअꣳहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्। मु॒ष्काविद॑स्याऽएजतो गोश॒फे श॑कु॒लावि॑व॥२८॥

यत्। अ॒स्याः॒। अ॒ꣳहु॒भेद्या॒ऽइत्य॑ꣳहु॒ऽभेद्याः॑। कृ॒धु। स्थू॒लम्। उ॒पात॑स॒दित्यु॑प॒ऽअत॑सत्। मु॒ष्कौ। इत्। अ॒स्याः॒। ए॒ज॒तः॒। गो॒श॒फ इति॑ गोऽश॒फे। श॒कु॒लावि॒वेति॑ शकु॒लौऽइ॑व ॥२८ ॥

Mantra without Swara
यदस्याऽअँहुभेद्याः कृधु स्थूलमुपातसत् । मुष्काविदस्याऽएजतो गोशफे शकुलाविव ॥

यत्। अस्याः। अꣳहुभेद्याऽइत्यꣳहुऽभेद्याः। कृधु। स्थूलम्। उपातसदित्युपऽअतसत्। मुष्कौ। इत्। अस्याः। एजतः। गोशफ इति गोऽशफे। शकुलाविवेति शकुलौऽइव॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यत्) यः (अस्याः) प्रजायाः (अंहुभेद्या) अंहुमपराधं या भिनत्ति तस्याः (कृधु) ह्रस्वम्। कृध्विति ह्रस्वनामसु पठितम्॥ (निघं॰३।२) (स्थूलम्) महत् कर्म (उपातसत्) उपभूषयेत् (मुष्कौ) मूषकौ (इत्) एव (अस्याः) (एजतः) कम्पयतः (गोशफे) गोखुरचिह्ने (शकुलाविव) ह्रस्वौ मत्स्याविव॥२८॥
Essence
अत्रोपमालङ्कारः। यथा प्रीतिमन्तौ मत्स्यावल्पेऽपि जलाशये निवसतस्तथा राजराजपुरुषावल्पेऽपि करलाभे न्यायेन प्रीत्या वर्त्तेयाताम्। यदि दुःखच्छेदिकायाः प्रजायाः स्वल्पमहदुत्तमं कर्म प्रशंसयेतां तर्हि तौ प्रजा उपरक्ताः कृत्वा स्वविषये प्रीतिं कारयेताम्॥२८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यद्यो राजा राजपुरुषश्चास्या अंहुभेद्याः कृधु स्थूलं कर्मोपातसत् तावस्या एजतो गोशफे शकुलाविव मुष्काविदेजतः॥२८॥