Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 27

65 Mantra
23/27
Devata- श्रीर्देवता Rishi- प्रजापतिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
ऊ॒र्ध्वमे॑न॒मुच्छ्र॑यताद् गि॒रौ भा॒रꣳ हर॑न्निव। अथा॑स्य॒ मध्य॑मेजतु शी॒ते वाते॑ पु॒नन्नि॑व॥२७॥

ऊ॒र्ध्वम्। ए॒न॒म्। उत्। श्र॒य॒ता॒त्। गि॒रौ। भा॒रम्। हर॑न्नि॒वेति॒ हर॑न्ऽइव। अथ॑। अ॒स्य॒। मध्य॑म्। ए॒ज॒तु॒। शी॒ते। वात॑ पु॒नन्नि॒वेति॑ पु॒नन्ऽइ॑व ॥२७ ॥

Mantra without Swara
ऊर्ध्वमेनमुच्छ्रायताद्गिरौ भारँ हरन्निव । अथास्य मध्यमेजतु शीते वाते पुनन्निव ॥

ऊर्ध्वम्। एनम्। उत्। श्रयतात्। गिरौ। भारम्। हरन्निवेति हरन्ऽइव। अथ। अस्य। मध्यम्। एजतु। शीते। वात पुनन्निवेति पुनन्ऽइव॥२७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ऊर्ध्वम्) अग्रगामिनम् (एनम्) राजानम् (उच्छ्रयतात्) उच्छ्रितं कुर्यात् (गिरौ) पर्वते (भारम्) (हरन्निव) (अथ) (अस्य) राष्ट्रस्य (मध्यम्) (एजतु) सत्कर्मसु चेष्टताम् (शीते) (वाते) (पुनन्निव)॥२७॥
Essence
अत्रोपमालङ्कारौ। यथा सूर्यो मेघमण्डले जलभारं नीत्वा वर्षयित्वा सर्वानुन्नयति, तथैव प्रजा राजपुरुषानुन्नयेदधर्माचरणाद् बिभीयाच्च॥२७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे प्रजास्थ विद्वन्! भवान् गिरौ भारं हरन्निवैनं राजानमूर्ध्वमुच्छ्रयतात्। अथास्य मध्यं प्राप्य शीते वाते पुनन्निवैजतु॥२७॥