Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 25

65 Mantra
23/25
Devata- भूमिसूर्य्यौ देवते Rishi- प्रजापतिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
मा॒ता च॒ ते पि॒ता च॒ तेऽग॑रे वृ॒क्षस्य॑ क्रीडतः। विव॑क्षतऽइव ते॒ मुखं॒ ब्रह्म॒न्मा त्वं व॑दो ब॒हु॥२५॥

मा॒ता। च॒। ते॒। पि॒ता। च॒। ते॒। अग्रे॑। वृ॒क्षस्य॑। क्री॒ड॒तः॒। विव॑क्षतऽइ॒वेति॑ विव॑क्षतःऽइव। ते॒। मुख॑म्। ब्रह्म॑न्। मा। त्वम्। व॒दः॒। ब॒हु ॥२५ ॥

Mantra without Swara
माता च ते पिता च ते ग्रे वृक्षस्य क्रीडतः । विवक्षतऽइव ते मुखम्ब्रह्मन्मा त्वँवदो बहु ॥

माता। च। ते। पिता। च। ते। अग्रे। वृक्षस्य। क्रीडतः। विवक्षतऽइवेति विवक्षतःऽइव। ते। मुखम्। ब्रह्मन्। मा। त्वम्। वदः। बहु॥२५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(माता) पृथिवीवज्जननी (च) (ते) (पिता) सूर्यवद्वर्त्तमानः (च) (ते) (अग्रे) विद्याराजलक्ष्म्यां (वृक्षस्य) राज्यस्य मध्ये (क्रीडतः) (विवक्षत इव) (ते) तव (मुखम्) (ब्रह्मन्) चतुर्वेदवित् (मा) (त्वम्) (वदः) वदेः (बहु)॥२५॥
Essence
यौ मातापितरौ सुशीलौ धर्मात्मानौ कुलीनौ भवेतां ताभ्यां शिक्षित एव पुत्रो मितभाषी भूत्वा कीर्त्तिमाप्नोति॥२५॥
Subject
पुनर्मातापितरौ कीदृशौ भवेतामित्याह॥
Anvaya
हे ब्रह्मन्! यस्य ते माता च यस्य ते पिता च वृक्षस्याग्रे क्रीडतस्तस्य ते विवक्षत इव यन्मुखं तेन त्वं बहु मा वदः॥२५॥