Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 17

65 Mantra
23/17
Devata- अग्न्यादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- अतिशक्वरी Swara- पञ्चमः
Mantra with Swara
अ॒ग्निः प॒शुरा॑सी॒त् तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॑न्न॒ग्निः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः। वा॒युः प॒शुरा॑सी॒त् तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॑न् वा॒युः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः। सूर्यः॑ प॒शुरा॑सी॒त् तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॒न्त्सूर्य्यः॒ स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः॥१७॥

अ॒ग्निः। प॒शुः। आ॒सी॒त्। तेन॑। अ॒य॒ज॒न्त॒। सः। ए॒तम्। लो॒कम्। अ॒ज॒य॒त्। यस्मि॑न्। अ॒ग्निः। सः। ते॒। लो॒कः। भ॒वि॒ष्य॒ति॒। तम्। जे॒ष्य॒सि॒। पिब॑। ए॒ताः। अ॒पः। वा॒युः। प॒शुः। आ॒सी॒त्। तेन॑। अ॒य॒ज॒न्त॒। सः। ए॒तम्। लो॒कम्। अ॒ज॒य॒त्। यस्मि॑न्। वा॒युः। सः। ते॒। लो॒कः। भ॒वि॒ष्य॒ति॒। तम्। जे॒ष्य॒सि॒। पिब॑। ए॒ताः। अ॒पः। सूर्यः॑। प॒शुः। आ॒सी॒त्। तेन॑। अ॒य॒ज॒न्त॒। सः। ए॒तम्। लो॒कम्। अ॒ज॒य॒त्। यस्मि॑न्। सूर्य्यः॑। सः। ते॒। लो॒कः। भ॒वि॒ष्य॒ति॒। तम्। जे॒ष्य॒सि॒। पिब॑। ए॒ताः। अ॒पः ॥१७ ॥

Mantra without Swara
अग्निः पशुरासीत्तेनायजन्त सऽएतँल्लोकमजयद्यस्मिन्नग्निः स ते लोको भविष्यति तञ्जेष्यसि पिबैताऽअपः । वायुः पशुरासीत्तेनायजन्त सऽएतँल्लोकमजयद्यस्मिन्वायुः स ते लोको भविष्यति तञ्जेष्यसि पिबैताऽअपः । सूर्यः पशुरासीत्तेनायजन्त सऽएतँलोकमजयद्यस्मिन्त्सूर्यः स ते लोको भविष्यति तञ्जेष्यसि पिबैता अपः ॥

अग्निः। पशुः। आसीत्। तेन। अयजन्त। सः। एतम्। लोकम्। अजयत्। यस्मिन्। अग्निः। सः। ते। लोकः। भविष्यति। तम्। जेष्यसि। पिब। एताः। अपः। वायुः। पशुः। आसीत्। तेन। अयजन्त। सः। एतम्। लोकम्। अजयत्। यस्मिन्। वायुः। सः। ते। लोकः। भविष्यति। तम्। जेष्यसि। पिब। एताः। अपः। सूर्यः। पशुः। आसीत्। तेन। अयजन्त। सः। एतम्। लोकम्। अजयत्। यस्मिन्। सूर्य्यः। सः। ते। लोकः। भविष्यति। तम्। जेष्यसि। पिब। एताः। अपः॥१७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्निः) वह्निः (पशुः) दृश्यः (आसीत्) अस्ति (तेन) (अयजन्त) यजन्तु (सः) (एतम्) (लोकम्) द्रष्टव्यम् (अजयत्) जयति (यस्मिन्) लोके (अग्निः) (सः) (ते) तव (लोकः) (भविष्यति) (तम्) (जेष्यसि) (पिब) (एताः) (अपः) जलानि (वायुः) (पशुः) द्रष्टव्यः (आसीत्) (तेन) (अयजन्त) (सः) (एतम्) वाय्वधिष्ठातृकम् (लोकम्) (अजयत्) जयति (यस्मिन्) (वायुः) (सः) (ते) (लोकः) (भविष्यति) (तम्) (जेष्यसि) उत्कर्षयसि (पिब) (एताः) (अपः) प्राणान् (सूर्यः) (पशुः) दृश्यः (आसीत्) (तेन) (अयजन्त) (सः) (एतम्) सूर्याधिष्ठितम् (लोकम्) (अजयत्) जयति (यस्मिन्) (सूर्यः) (सः) (ते) (लोकः) (भविष्यति) (तम्) (जेष्यसि) (पिब) (एताः) (अपः) व्याप्तान् प्रकाशान्॥१७॥
Essence
हे मनुष्याः! सर्वेषु यज्ञेष्वग्न्यादीनेव पशून् जानन्तु, नैव प्राणिनोऽत्र हिंसनीया होतव्या वा सन्ति, य एवं विदित्वा सुगन्ध्यादिद्रव्याणि सुसंस्कृत्याऽग्नौ जुह्वति, तानि वायुं सूर्य्यं च प्राप्य वृष्टिद्वारा निवर्त्य ओषधीः प्राणान् शरीरं बुद्धिं च क्रमेण प्राप्य सर्वान् प्राणिन आह्लादयन्ति। एतत्कर्त्तारः पुण्यस्य महत्त्वेन परमात्मानं प्राप्य महीयन्ते॥१७॥
Subject
अथ के पशव इत्याह॥
Anvaya
हे जिज्ञासो! यस्मिन् सोऽग्निः पशुरासीत् तेनाऽयजन्त तेन त्वं यज यथा स विद्वांस्तेनैतं लोकमजयत् तयैतं जय तं चेज्जेष्यसि तर्हि सोऽग्निस्ते लोको भविष्यति, अतस्त्वमेता यज्ञेन शोधिता अपः पिब। यस्मिन् स वायुः पशुरासीद् येन यजमाना अयजन्त तेन त्वं यज यथा स एतं लोकमजयत् तथा त्वं जय, यदि तं जेष्यसि तर्हि स वायुस्ते लोको भविष्यति, अतस्त्वमेता अपः पिब। यस्मिन्स सूर्य्यः पशुरासीत् तेनायजन्त यथा स एतं लोकमजयत् तथा त्वं जय यदि त्वं तं जेष्यसि तर्हि स सूर्यस्ते लोको भविष्यति तस्मात्त्वमेता अपः पिब॥१७॥